________________
उपोद्घातनिर्युक्तिः
॥११६॥
Jain Education Interna
यिकादिलाभो न भवति सञ्जातो वाऽपैति तानिह आवरणरूपान् कषायान् प्रतिपादयन्नाह, यदिवा यदुक्तं 'कैवल्यज्ञानलाभो नान्यत्र कषायक्षयादि'ति, ते कषायाः के ? किंसङ्ख्याका वा ? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं ? को वा खलु कस्योपशमादिक्रम १ इत्यमुमर्थमभिधित्सुराह
आिण उदर नियमा संजोयणाकसायाणं । सम्मदंसणलंभं भवसिद्धीयावि न लहंति ॥ १०८ ॥ प्रथम एव प्रथमेनुकाः, देशीवचनमेतत्, यथा 'पढमेल्ला एत्थ घरे'त्यादि तेषां प्रथमेकानाम् - अनन्तानुबन्धिनां क्रोधादीनां तेषां प्राथम्यं सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वा, उदयः - उदयावलिकाप्रविष्टानां तत्पुद्| गलानामुद्भूत सामर्थ्यता तस्मिन्नुदये, नियमेन अस्य पदस्य व्यवहितपदेन सह सम्बन्धः तं च दर्शयिष्यामः, सम्प्रति पुनः प्रथमेलुका एव विशेष्यन्ते, किंविशिष्टानां प्रथमेलुकानाम् ? -कर्म्मणा तत्फलभूतेन वा संसारेण सह संयोजयन्ति जीवमिति संयोजनाः, उक्तं च- "खवणं पडुच्च पढमा पढमगुणविघाइणोति से (वा) जम्हा। संजोयणा कसाया भवादिसंजोयणातो य ॥ १ ॥” (वि.१२२६) ते च कषायाश्च संयोजनाकषायाः, 'कषाया' इति कंपन्ति - परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कषः - संसारः कर्म्म वा ततः कषः - कर्म्म भवो वा तस्य आयो - लाभो येभ्यस्ते कषायाः, अथवा कर्ष-संसारमाययन्ति - गमयन्तीति कषायाः, आइ च - "कम्मं कसो भवो वा कसमातो सिं जतो कसावा तो । कसमाययंति व जतो गमयंति कसं कसायत्ति ॥ १ ॥ (वि. १२२७) तेषां प्रथमेलुकानां संयोजनकषायाणामुदये किम् ? -नियमेन सम्यक् - अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभः - प्राप्तिः सम्यग्दर्शनलाभः तं भवे सिद्धिर्येषां ते मवसिद्धिकाः, सर्वेषामेव भवे सति सिद्धिर्भवति ततः किं
For Private & Personal Use Only
*6*6*
१०८ सम्यक्त्वा
वारकाः
॥ ११६॥
wjainelibrary.org