________________
CASARAN
SECRECICCARECOAC%AC
नेन मिथ्यात्वं मिथ्यादर्शनसम्यग्मिध्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजते, तथा चौकम्-"मयणा दरनिबलिया है निबलिआ व जह कोहवा तिविहा । तह मिच्छत्तं तिविहं परिणामवसेण सो कुणइ ॥२॥"(वि.१२२०) ततोऽनिवत्र्तिकरणहै विशेषात् सम्यक्त्वं प्रामोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद्यथाप्रवृत्तिकरणतो
प्रन्थिमासाद्याईदादिविभूतिसन्दर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषसामायिकलाभः, उक्कं च-"नासेइ सयं व परिकम्मतो व जह कोईवाण मयभावो । नासइ तह मिच्छमओ, सयं व परिकम्मणाए वा ॥१॥ अप्पुबेण तिपुंजं, मिच्छत्तं कुणइ कोइवोवमया । अनियट्टीकरणेण उ सो सम्मइंसणं लहइ ॥२॥तित्यकराइपूर्य, दहुँ अण्णेण वावि कजेणं। सुयसामाइयलंभो होज अभवस्स गंथिमि ॥३॥” (वि.१२१५-७)सम्प्रति जलदृष्टान्तः, यथाहि-जलं मलिनमर्द्धविशुद्धं शुद्धं चेति त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरणतखिधा करोति,
एवं वस्त्रदृष्टान्तेऽपि भावना कार्या, आह च-"जह वेह किंचि मलिणं, दरसुद्धं सुद्धमंबु वत्थं वा । एवं परिणामवसा, करेइ चासो दंसणं तिविह॥१॥"(वि.१२२१)सम्प्रति प्रासङ्गिकमुच्यते-एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणःपल्योपमपृथक्त्व
स्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः सङ्ख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिः, तदनन्तरमव| शेषस्थितेरपि सङ्ख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशमश्रेणिः, तदनन्तरं भूयोऽप्येवशिष्टस्थितेः सङ्ख्येयेषु सागरोपमेष्वपगतेषु क्षपकश्रेणिरिति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषत्पद्यमानस्याप्रतिपतितस्योत्कर्षतो द्रष्टव्या, अन्यथा अन्यतरश्रेणिरहितस्य सम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्रेति, भणितमानुपङ्गिकमिदानीं यदुदयात् सम्यक्त्वसामा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org