________________
उपोदातनिर्युतिः
॥११५॥
प्राप्तोऽपूर्वकरणतो रागद्वेषचौरावपाकृत्यानिवर्त्तिकरणेनावातसम्यग्दर्शनः उक्तं च-"जह वा तिष्णि मणूसा जंतऽडविप सभावगमणेणं । वेलाइकमभीया तुरंति पत्ता य दो चोरा ॥ १ ॥ दहुं मग्गतडत्थे, ते एगो मग्गतो पडिनियत्तो । बिश्तो गहितो तइतो समइकंतो पुरं पत्तो ॥ २ ॥ अडवी भवो मणूसा जीवा कम्मट्टिई पहो दीहो । गंठी य भयद्वाणं रागदोसा य दो चोरा ॥३॥ भग्गो ठिइपरिवुड्डी, गहितो पुण गंठिओ गतो तइतो । सम्मतपुरं एवं जोइजा तिण्णि करणाणि | ४ ||” (वि. १२११-४) अत्र पर आह- ननु ग्रन्थिभेदं कृत्वा सम्यग्दर्शनमुपदेशतो लभते उतानुपदेशतः १, उच्यते, उभयथापि लभते, कथं?, पथः परिभ्रष्टपुरुषत्रयवत्, तथाहि —- यथा कश्चित्पथः परिभ्रष्टपुरुष उपदेशमन्तरेणैव परिभ्रमन् स्वयं पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तप्रनष्टसत्पथो जीवो यथाप्रवृत्तकरणतः संसारा|टव्यां परिभ्रमन् कश्चित् ग्रन्थिमासाद्यापूर्वकरणेन तमतिक्रम्यानिवर्त्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादिरूपं निर्वाणपु| रपन्थानं लभते, कश्चित्परोपदेशाद्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति । सम्प्रति ज्वरदृष्टान्तः, यथा ज्वरः कश्चित्स्वयमेवापैति कश्चिद् मेषजोपयोगेन कश्चिन्नैवापैति, एवमिहापि मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति, कश्चिदर्हद्वचन भेषजोपयोगाद्, अपरस्तु तदौषधोपयोगेऽपि नापैति । कोद्रवदृष्टान्तः, यथा केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति केषाञ्चिद् गोमयादिपरिकर्म्मतोऽपरेषां तथापरिकर्म्मणायामपि नापैति, एवं मिथ्यादर्शन-भावोऽपि केषाञ्चित्स्वयमेव विनाशमुपयाति, अपरेषामुपदेशपरिकर्म्मतः, अन्येषां तु न सर्वथाऽपैति, योऽपि च स्वयमु |पदेशपरिकर्म्मणातो वाऽपैति सोऽप्यपूर्वकरणबलेन, तथाहि - स जीवोऽपूर्वकरणेन शुद्धार्धशुद्धाशुद्धमदनकोद्रवनिदर्श
Jain Education International
For Private & Personal Use Only
१०७
सम्यक्त्वा
तिदृष्टा
न्ताः
॥११५॥
www.jainelibrary.org