________________
उपोद्धाते
॥४
॥
मङ्गलवुझ्या परिगृहीतं मङ्गलफलसाधकं, नान्यथा, उकं च-"इह मङ्गलमपि मंगलवुद्धीए मंगलं जहा साई' (भा. २१) मंगलबुरी इति, ननु यदि मङ्गलमपि मङ्गलवुद्या परिगृह्यमाणं मङ्गलं नेतरथा तर्हि भवन्मतेन मनःप्रमाणं, यद् यथा मनः मंगलं सङ्कल्पयते तत्तथोपजायते नेतरदिति, एवं तर्हि अमङ्गलमपि मङ्गलबुद्ध्या परिगृहीतं मङ्गलकार्यकृत् प्राप्नोति, न्यायस्य | समानत्वात् , न चैतद् दृष्टमिष्टं वेति, यत्किञ्चिदेतद् , वस्तुतत्त्वापरिज्ञानात्, मङ्गलं हि स्वरूपेण मङ्गलं ततस्तन्मङ्ग
लवुद्ध्या परिगृह्यमाणं मङ्गलफलसाधनायालं, स्वतो मङ्गलस्य स्वबुद्धिसहितस्य परिपूर्णसामग्रीकतया स्वकार्याभिनिर्वभर्तनसमर्थत्वात् , काञ्चनवत् , काञ्चनं हि स्वतः काञ्चनं सत् काश्चनबुद्ध्या परिगृह्यमाणं भवति काञ्चनफलकृत् , नान्य
थेति, प्रतीतमेतत् , यत्त्वमङ्गलं तत्स्वरूपतो मङ्गलं न भवति, ततः कथं मङ्गलबुद्ध्याऽपि तत्परिगृह्यमाणं मङ्गलकार्यकृत् , नहि लेष्टादि काञ्चनबुद्ध्या परिगृहीतं काञ्चनफलमुपजनयतीति । ननु यदि शिष्यमतिमङ्गलपरिग्रहाय | मङ्गलोपन्यासस्तत आदिमङ्गलमेवास्तु, शिष्यमतिमङ्गलपरिग्रहस्य तेनैव कृतत्वात् , किं मङ्गलत्रयोपन्यासेन?, न, विहि-15 तोत्तरत्वात्, आदिमङ्गलेन ह्यादौ मङ्गलमतिपरिग्रहः क्रियते, न मध्यमङ्गलमतिपरिग्रहो नाप्यवसानमङ्गलमतिपरिग्रहः, ततस्तत्रापि विवक्षितफलसाधनाय शिष्याणां मङ्गलमतिपरिग्रहो भूयादिति मङ्गलत्रयोपन्यासः, यद्येवं मङ्गलवयापान्तरालद्वयममङ्गलमापद्यते, तत्र मङ्गलमतिपरिग्रहाभावात् , नैष दोषः, सम्पूर्णस्यैव शास्त्रस्य त्रिधाविभक्तत्वेनापान्तराल-5
॥४ ॥ दयासम्भवात् मोदकवत्, यथा हि मोदके त्रिधाविभक्त नापान्तरालद्वयसम्भवस्तथाऽधिकृतशास्त्रेऽपि, तत आदिख-14 ण्डमादिमङ्गलेन मङ्गलबुद्या परिगृहीतं मध्यं मध्यमङ्गलेनावसानमवसानमङ्गलेन, स्वतो मङ्गलं च तदिति स्वस्वफलसाधनाय
Jain Education inte
For Private & Personal Use Only
jainelibrary.org