SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Jain Education International मङ्गलकरणसमर्थत्वात् स्वं परं च मङ्गलयतीति न कश्चिद्दोषः, द्वितीयपक्षेऽपि न मङ्गलोपादाननैरर्थक्यं, शिष्यमतिमङ्गलपरिग्रहाय शास्त्रस्यैव मङ्गलत्वानुवादात्, तथाहि कथं नु नाम विनेयो मङ्गलमिदं शास्त्रमित्येवं गृह्णीयादिति मङ्गलोपन्यासेन मङ्गलमिदं शास्त्रमिति प्रबोध्यते, न चैवमनवस्था, प्रथममङ्गलोपन्यासे च शिष्य - मतिमङ्गलपरिग्रहस्य कृतत्वात् अन्यमङ्गलाकाङ्क्षाया निवृत्तेः न च शास्त्रस्यामङ्गलत्वप्रसक्तिः, अन्यमङ्गलनिरपेक्षस्य तस्य स्वतो मङ्गलत्वात्, मङ्गलं ह्यन्यदुपादीयते न शास्त्रस्य मङ्गलस्वकरणाय, तस्य स्वत एव मङ्गलत्वात्, किन्तु १, शिष्यमतिमङ्गलपरिग्रहाय, ततः कथमन्यमङ्गलोपादानेऽनवस्थानिष्टौ शास्त्रस्यामङ्गलत्वमिति, ननु यदि शास्त्रं स्वतो मङ्गलं तर्हि यद्यपि मङ्गलमिदं शास्त्रमित्येवं न गृह्णाति विनेयस्तथापि तत्स्वकार्यप्रसाधनसमर्थमेव, तस्य तथारवभावत्वादिति कथमन्यमङ्गलोपादानं न निरर्थक मिति ?, तदेतदसम्यक्, अभिप्रायापरिज्ञानात्, इह विचित्रा भावानां शक्तयः, किश्चित्तथास्वरूपेण गृह्यमाणं स्वकार्यप्रसाधनसमर्थं यथा सुवर्ण, सुवर्ण हि सुवर्णरूपतया परिगृह्यमाणं | स्वफलप्रदान समर्थ न लोष्ठादिरूपतयेति किञ्चित्तथास्वरूपेणागृह्यमाणमपि यथा किश्चिदनिष्टमन्तःसमुत्थ व्याध्यादिकं, तद्धि तथास्वरूपेणाविदितमपि स्वफलं दुःखमुत्पादयति, मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलफलसाधनायालं नान्यथा साधुवत्, तथाहि - साधुः सम्यग्दर्शनज्ञानचारित्रपरिणामपरिणतो भावितात्मा क्षान्तिनिधानं 'समणं संजयं | दंत' मिति वचनात् मङ्गलभूतोऽपि मङ्गलबुद्ध्यैव परिगृह्यमाणः सन् प्रशस्तचेतोवृत्तेर्भव्यस्य मङ्गलकार्यप्रसाधको भवति, यदि तु तथा न गृह्यते तर्हि तस्य कालुष्योपहतचेतसः सत्वस्य न भवतीति, एवं शास्त्रमपि स्वतो मङ्गलमपि सत् For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy