________________
उपोद्धाते
मंगलत्रय स्यावश्यकता
RAXAA%%ASE
स्वमङ्गलमुच्यते एवं मङ्गलान्तरमपि वक्तव्यम्, आद्यमङ्गलाभिधानेऽपि तस्य तथैवामङ्गलत्वात, एवं मालान्तराभिधानेऽप्य-1 न्यन्मङ्गलान्तरमभिधातव्यं, न्यायस्य समानत्वात् , तत्राप्यन्यदित्यनवस्था, अथाभिन्नमिति पक्षः तर्हि शास्त्रमेव मङ्गल मित्यन्यमङ्गलोपादानमनर्थकं, अमङ्गले हि मङ्गलमुपादीयते, यस्तु स्वत एव मङ्गलं तत्र किं मङ्गल विधानेन ?, नहि शुक्ल शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते, अध मङ्गलभूतस्याप्यन्यन्मङ्गलमुपादीयते तर्हि तेनापि मङ्गलीभूतस्यान्यन्मङ्गलमुपादातव्यं, मङ्गलरूपत्वाविशेषात्, तत्राप्यन्यदित्यनवस्था, अथ मा भूत् प्रस्तुतार्थक्षितिरित्यनवस्था नेष्यते तर्हि शास्त्रस्यामङ्गलत्वप्रसङ्गः, कथमिति चेत्, उच्यते, इह यथा शास्त्रं स्वतो मङ्गलमपि अन्यमङ्गलनिरपेक्षममङ्गलं, अन्यथा अन्यमङ्गलोपादाननैरर्थक्यप्रसक्तः, यदि हि अन्यमङ्गलनिरपेक्षमपि तन्मङ्गलं भवेत् तर्हि नान्यमङ्गलमपेक्षेत, स्वतः समर्थस्यान्यव्यपेक्षाया अयोगात्, अन्यमङ्गलव्यपेक्षा चेत् नूनममङ्गलता, तस्य स्वरूपत एव मङ्गलस्याप्यन्यमङ्गलशून्यस्यामङ्गलतेति, अनवस्थाऽनिष्टौ मङ्गलममङ्गलं, तद्योगाच्छास्त्रमप्यमङ्गलमित्यमङ्गलता शास्त्रस्येति, अत्रोच्यते, इहाद्यः पक्षस्तावन्नाभ्युपगम्यते, ततोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति, यदिवा सोऽप्यभ्युपगम्यते, न च प्रागुक्तदो. पावकाशः, यतो द्विविधानि जगति वस्तुनि-भाव्यानि अभाव्यानि च, तत्र काचादीन्यभाव्यानीति न तानि वैडूर्यरूपतया कर्तुं शक्यन्ते, शास्त्राणि तु भाव्यानि, ततः स्वरूपेणामङ्गलान्यपि तानि मङ्गलरूपतया परिणम्यन्ते, मङ्गलस्य स्वपरतद्रूपताऽऽपादने समर्थत्वात् , लवणप्रदीपादिवत्, यथा हि प्रदीपः स्वपरप्रकाशनसमर्थत्वात् स्वं परं च प्रकाशयति, यथा वा लवणं स्वपरलवणिमस्वभावापादने समर्थतया खं परं च लवणयति, एवं मङ्गलमपि स्वपर
Jain Education in
For Private & Personal use only
X
w w.jainelibrary.org