________________
RACKASEARCCCC
वातिविधिरुच्यते, इह जीवा द्विविधा भवन्ति, तद्यथा-भव्याश्च अमव्याश्च, तत्र भव्यानां करणत्रयं भवति, करणं नाम सम्यक्त्वाद्यनुगुणो विशुद्धरूपः परिणामविशेषः, तद्यथा-यथाप्रवृत्तकरणमपूर्वकरणमनिवर्जिकरणं, तत्र यथैव-अनादिसंसिद्धेनैव प्रकारेण प्रवृत्तं यथाप्रवृत्तं क्रियते कर्मक्षपणमनेनेति करणं यथाप्रवृत्तं च तत्करणं च यथाप्रवृत्तकरणम्अनादिकालात्कर्मक्षपणाय प्रवृत्तो गिरिसरिदुपलघोलना[न्यायेन] कल्पोऽध्यवसायविशेषो यथाप्रवृसकरणमिति, स्था अप्राप्तपूर्वमपूर्व स्थितिघातरसघाताद्यपूर्वार्थनिर्वर्तकं वा अपूर्वकं, तच्च तत्करणं च अपूर्वकरणं, निवर्त्तनशीलं निवर्तिन निवर्ति अनिवर्चि-आसम्यग्दर्शनलाभान्न निवर्तत इत्यर्थः, ततः प्राग्वत्करणशब्देन सह विशेषणसमासः, एतानि त्रीण्यपि यथोत्तरं विशुद्धविशुद्धतराध्यवसायरूपाणि भवन्ति भव्यानाम् , अभव्यानां त्वाद्यमेव करणं, तत्र अनादिकालादारभ्य यावद ग्रन्थिस्थानं तावदाद्य, ग्रन्थि तु समतिकामतो द्वितीय,प्राक्तनात् विशुद्धतराध्यवसायरूपेण तेन ग्रन्थे|दकरणात्, सम्यग्दर्शनलाभाभिमुखस्य तृतीयम्, उक्तंच-“करणं अहापवत्तं अयुबमनियट्टिमेव भवाणं। इयरेसिं पढम चिय भन्नइ करणं तु परिणामो॥१॥ जा गंठी ता पढम गठिं समइच्छतो हवइ बीयं । अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीने
॥” (वि.१२०२-३) सम्यक्त्वं पुरस्कृतम्-अभिमुखं कृतं येन स सम्यक्त्वपुरस्कृतोऽभिमुखसम्यक्त्व इत्यर्थः तस्मिन् जीवे सम्पति करणत्रयमङ्गीकृत्य सामायिकलाभदृष्टान्तानभिधित्सुराह
पल्लगगिरिसरिभोवल-पिवीलिया-पुरिस-पह-जरग्गदिया। कोहब-जल-वत्थाणि पसामाइपलामदिटुंता॥१०७॥
Niww.iainelibrary.org
For Private & Personal Use Only
Jain Education inte