________________
उपोद्घातनिर्युक्तिः
॥११२॥
Jain Education Inter
सम्यक्त्वलाभ उपजायते, केवलं कर्म्मग्रन्थेर्भेद एव मनोविघातपरिश्रमादिभिर्दुःसाधः, तथाहि स जीवः कर्मरिपुमध्यसामायिक गतस्तं प्राप्य विघातयन्नतीव परिश्राम्यति, प्रभूतकर्म्मारातिसैन्यान्तकारितया सञ्जातखेदत्वात्, महासमरशिरसि दुर्जया हेतुः १०६ पाकृतानेकशत्रुगणः सुभट इव, उक्तं च- "भिन्नंमि तंमि लाभो संमत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्समचित्तविघायाइविग्धेहिं ॥ १ ॥ (वि. ११९६ ) " अपरस्त्वाह - ननु किं तेन कर्मग्रन्धिना भिन्नेन ? किं वा सम्यक्त्वादिना अवाप्तेन ? यावता यथाऽतिदीर्घा कर्म्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता एवं कर्म्मशेषमपि गुणरहित एव क्षपयित्वा विव|क्षितफलभाग् भविष्यतीति, उच्यते, स हि तस्यामवस्थायां प्रवर्त्तमानोऽनासादितगुणान्तरो न शेषक्षपणया विशिष्टफलप्रसाधनायालं, चित्तविघातादिप्रचुरविघ्नसङ्कुलत्वात्, विशिष्टायाश्चाप्राप्तपूर्वफलप्राप्तेः प्रागभ्यस्तक्रिययाऽवासुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियाऽऽसादितगुणान्तर सहाय क्रियारहित विद्यासाधकवद्, उक्तं च"कम्महिई सुदीहा खविया जइ निम्गुणेण सेसंपि । खबेउ निग्गुणच्चिय किं थ पुणो दंसणादीहिं ? ॥ १॥ आचार्य आह"पाएण पुइसेवा परिमउई साहणंमि गुरुतरिया । होइ महाविजाए किरिया पायं सविग्धा य ॥ २ ॥ तह कम्मट्टिइखवणे परिमउई मोक्खसाहणे गुरुई । इह दंसणाइकिरिया, दुलहा पायं सविग्धा य ॥३॥ (वि. ११९७ - २०० ) अथवा यत एव बही कर्म्मस्थितिरने नोन्मूलिता अत एवापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः सञ्जायते, अशेषकर्म्मपरिक्षये सिद्धत्ववत्, तत एव च मोक्षः, ततो न शेषमपि कर्म्म गुणरहित एवापाकृत्य मोक्षं प्रसाधयति, आह च - " अहव जउच्चि सुबहुं खविअं तो निरगुणो न सेसंपि । स सवेइ जओ लभए सम्मतसुआइगुणलाभं ॥ १ ॥ (वि. १२०१) " इति । सम्प्रति सम्यक्त्वादिगुणा
For Private & Personal Use Only
॥११२॥
www.jainelibrary.org