SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ 1949 Jain Education International मपि षण्णामुत्कृष्टैव स्थितिः, आयुषस्तु उत्कृष्टा वा मध्यमा वा, न तु जघन्या, मोहनीयरहितानां तु शेषप्रकृतीनामन्य| तमस्वा उत्कृष्टस्थितिसद्भावे मोहनीयस्य शेषाणां च उत्कृष्टा वा मध्यमा वा, न तु जघन्येति, उकं च - "मोहस्सुकोसाए ठिईऍ सेसाण छण्हमुकोसा । आउस्सुकोसा वा मज्झमिया वा न उ जहण्णा ॥ १ ॥ मोहविवज्जुकोसट्टिईऍ मोहस्स सेसियाणं च । उक्कोस मज्झिमा वा कस्सइ न जहण्णिया होजा ॥ २ ॥ (वि. १९८९-९० ) ” तदेवमुक्तं सम्यक्त्वादीनामलाभकारणम्, अधुना लाभकारणमाह सहं पडणं अभिंतरओ उ कोडिकोडीए । काऊण सागराणं जह लहइ चउण्हमण्णयरं ॥ १०६ ॥ सप्तानामायुवर्जानां कर्मप्रकृतीनां या पर्यन्तवर्त्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटाकोटी तस्या अभ्यन्तर | एव-मध्य एव, तुशब्दोऽवधारणार्थः, कृत्वा आत्मानमिति गम्यते, यदि लभते यदि प्राप्नोति चतुर्णा श्रुतसामायिका|दीनामन्यतमत्, तत एव लभते नान्यथा, पाठान्तरं 'काऊण सागराणं ठिगं लभइ चउण्हह्मण्णय रं' तत्र सागरोपमाणां कोटीकोव्या अभ्यन्तरतो-मध्ये कृत्वा स्थितिं लभते चतुर्णामन्यतमत्, एष गाथाक्षरार्थः, इयमत्र भावना - आयुर्वजनां | सप्तानां कर्मप्रकृतीनां यदा स्थितिः पर्यन्तवर्त्तिनी पल्योपमासङ्ख्येय भागहीन सागरोपमकोटीकोटीप्रमाणा अवतिष्ठते तदा | घनरागद्वेषपरिणामरूपोऽत्यन्तदुर्भेददा रुग्रन्थिवत्कर्मग्रन्थिर्भवति, उक्तं च- "अंतिमकोडाकोडीऍ, सबकम्माण आउवजाणं । पलियासंखेज्जइमे भागे खीणे हवइ गंठी ॥ १ ॥ गंहित्ति सुदुम्मेदो कक्खडघणरूढगूढगंठिव । जीवस्स कम्मज्जणितो बणरागद्दोसपरिणामो ॥२॥ (वि. ११९४०५) तस्मिंश्च कर्म्मग्रन्थावपूर्वकरण नामविशेषविशुद्धि कुठारधारया भिन्ने परमपदहेतुः For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy