________________
SANSACRACAस्वर
भावे खओक्समिए दुवालसंगपि होइ-मुयनाणं। केवलियनाणलंभो मण्णत्व खएकसायाणं॥१०४॥
भवनं भावो भवतीति वा भावस्तस्मिन्, सच औदयिकाबनेकभेदस्तत आह-क्षायोपशमिके, द्वादशाङ्गानि यत्र तत् द्वादशाङ्गम्, अपिशब्दादङ्गबाह्यमपि, भवति श्रुतज्ञानम् , उपलक्षणमेतत्, मत्यादिज्ञानत्रयमपि सामायिकचतुष्टयमपि, तथा केवलस्य भावः कैवल्यं-घातिकर्मवियोग इत्यर्थः तस्मिन् ज्ञानं कैवल्यज्ञानं, कैवल्ये सति ज्ञानग्रहणेन इह यो 'बुध्यध्यवसितमर्थ पुरुषश्चेतयते' इति वचनात् प्रकृतिविमुक्तस्य बुद्ध्यभावात् ज्ञानाभाव इति प्रतिपन्नस्तस्य प्रकृतिमुक्ताज्ञानिपुरुषप्रतिपादनपरकुनयमतव्यवच्छेदमाह, तस्य लाभ:-प्राप्तिः, कथं-कषायाणां-क्रोधादीनां क्षये सति, नान्यत्र, तृतीयार्थे सप्तमी, नान्येन प्रकारेण, छास्थवीतरागावस्थायां कषायक्षये सत्यप्यक्षेपेण कैवल्यज्ञानाभावे ज्ञानावरणक्षयानन्तरं चावश्यभावे कषायक्षयग्रहणं प्राधान्यख्यापनार्थ, कषायक्षय एव सति निर्वाणं, नान्यथा, कषायक्षय एव सति त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः, नन्वेवं तर्हि यदादावुक्तं श्रुतज्ञानेऽपि वर्तमानः सन् जीवोन प्राप्नोति मोक्षं, यस्तपःसंयमात्मकयोगशून्य इति विशेषणं तदनर्थकं, श्रुतेऽपि सति तपःसंयमात्मकसहिष्णोरपि मोक्षाभावात, सत्यमेतत्, केवलं शायोपशमिकसम्यक्त्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन परम्परया मोक्षहेतुत्वमस्तीत्यदोषः।आह-प्रतिपन्नमस्माभिर्मोक्षकारणकारणं श्रुतादि, परंतस्यैव कथमलाभो लाभो वेति', उच्यते
अट्टण्हं पयडीणं उकोसहिईएँ बट्टमाणो उ । जीवोन लहइ सामाइयं चउण्हपि एगयरं ॥१०५॥ अष्टानां प्रकृतीनांझानावरणीयादिकम्मेप्रकृतीनाम् उत्कृष्टा चासौ स्थितिश्च उत्कृष्टस्थितिस्तस्यां वर्तमानो जीवोन ळम-1
Jain Education Intema
For Private & Personal use only
www.jainelibrary.org