SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 4% संयमतपोनियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्णवं ती सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न इमामोति, तस्मात्तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यम् ॥ तथा चात्रौपदेशिकमेव गाथासूत्रमाह& संसारसागराओ उब्बुड्डो मा पुणो निवुड्डेजा। चरणगुणविप्पहीणो, बुड्डइ सुवहुंपि जाणतो ॥ ९७ ॥ १ अस्याः पदार्थो दृष्टान्ताभिधानद्वारेण प्रोच्यते, यथा नाम कश्चित् कच्छपः प्रचुरतृणपत्रपटलनिविडतमशैवलाच्छादिहै तोदकान्धकारमहाद्दान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनपरम्पराव्यवस्थितमानसः सर्वतः परिभ्रमन् कथमपि शेवालरन्ध्रमासाद्य तेनैव च तत उपरि विनिर्गत्य शरदि पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकटचेतोवृत्तिस्तेषामपि तपस्विनामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीत्यवधार्य तस्मिन्नेव हृदमध्ये निमग्नः, ततः समासादितवन्धुवर्गस्तदर्शननिमित्तं विवक्षितरन्ध्रोपलब्धये पर्यटन अवश्यं कष्टतरं व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मपटलसन्तानाच्छादितान्मिथ्यादर्शनादितमोऽनुगतान् विविधशिरोनेत्रकर्णवेदनावरकुष्ठभगंदरादिशरीरेष्टवियोगानिष्टसम्प्रयोगादिमानसदुःखजलचरसमूहानुगतान् , संसरणं संसारः, भावे घञ्प्रत्ययः, स एव सागरस्तस्मात् परिधमन् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रंध्रमासाद्य मनुष्यत्वप्राप्त्या उन्मनः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयं जिनवचनवोधिलाभ इत्येवं जानानः स्वजनस्नेहविषयातुरचित्ततया मा पुनः कूर्मवत् | तत्रैव निमज्जेत, आह-अज्ञानी कूर्मोऽतो निमज्जति, इतरस्तु हिताहितप्रातिपरिहारज्ञो ज्ञानी ततः कथं निमजति !, ASAKARSAGA%%% For Private & Personal Use Only www.jainelibrary.org Jain Education international
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy