________________
उपोद्घातनिर्युक्तिः
॥ १०७ ॥
सारशब्दः फलवचनः, चरणस्य संयमतपोरूपस्य सारः - फलं निर्वाणम्, इहापि शैलेश्यवस्थाभावि संर्वसंवररूपच्चा|रित्रमन्तरेण निर्वाणस्याभावात् तद्भावे चावश्यंभावादिति प्रधानभावमधिकृत्य उपन्यस्तम्, अन्यथा शैलेश्यवस्थायामपि | क्षायिकज्ञानदर्शने स्त इति सम्यग्ज्ञान दर्शनादिरूपरत्नत्रयस्य समुदितस्यैव निर्वाणहेतुत्वमिति ॥ तथा चाह नियुक्तिकारःसुयनाणम्मिवि जीवो वहंतो सो न पाउणइ मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥ ९४ ॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्त्तमानः सन् न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः यः | किंविशिष्ट इत्याह-यस्तपःसंयममयान्- तपःसंयमात्मकान् योगान् न शक्नोति वोदुमित्यनेन हेत्वर्थः, जे इति पादपूरणे 'इजेराः पादपूरणे' इति वचनात् दृष्टान्तस्तु स्वयमभ्युह्यो वक्ष्यति वा, प्रयोगः-न ज्ञानमेवेप्सितार्थप्रापकं सत्क्रियाविरहात् स्वदेशप्रात्यभिलषितगमनक्रियाशून्यमार्गज्ञज्ञानवत्, सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्सस्प्रापकपवन क्रियाशून्यपोतवत् ॥ तथा चाह
जह छेयलद्धनिज्जामओऽवि वाणियगइच्छियं भूमिं । वाएण विणा पोओ न चएह महण्णवं तरिडं ॥ ९५ ॥ तह नाणलद्धनिज्जामओऽवि सिद्धिवसहिं न पाउणइ । निउणोऽवि जीवपोओ तव-संजममारुयविहीणो ॥ ९६ ॥ 6 यथा ' येन प्रकारेण 'छेको' दक्षो 'लब्धः' प्राप्तो निर्यामको येन पोतेन स तथाविधः अपिशब्दात् सुकर्णधाराद्य| धिष्ठितोऽपि वणिज इष्टा वणिगिष्टा तां भूमिं महार्णवं तीर्त्वा वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः, उपनय | माह तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेन स तथाविधः, अपिशब्दात्सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि,
Jain Education International
For Private & Personal Use Only
संयमस्य
मुख्यता
९४-६
॥ १०७ ॥
www.jainelibrary.org