SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तस्यापि श्रुतज्ञानस्य सारश्चरणं, सारशब्दोऽत्र फलवचनः प्रधानवचनश्च मन्तव्यः, तस्य फलं चरणं, यदिवा तस्मादपि श्रुतज्ञानाच्चरणं प्रधानं, ननु चरणं नाम संवररूपा क्रिया, क्रिया च ज्ञानाभावे हता, 'हया अनाणतो किया' इति वचनात्, ततो ज्ञानक्रियाभ्यां समुदिताभ्यामेव मोक्ष इति समानत्वमेवोभयोः, कथं ज्ञानस्य सारश्चरणमिति १, उच्यते, इह यद्यपि " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग" ( तत्त्वा- १. १ ) इति समानं ज्ञानचरणयोर्निर्वाणहेतुत्वमुपन्यस्तं, तथापि गुणप्रधानभावोऽस्ति, तथाहि -ज्ञानं प्रकाशकमेव, 'नाणं पयासय' मिति वचनात्, चरणं त्वभिनवकर्मादाननिरोधफलं प्रागुपात्तकर्मनिर्जराफलं च, ततो यद्यपि ज्ञानमपि प्रकाशकतयोपकारीति ज्ञानचरणरूपद्विकाधीनो मोक्षः, तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं, कर्ममलशोधकतया तु चरणमिति प्रधानगुणभावाच्चरणं ज्ञानस्य सारः, उक्तं च- "नाणं पयासयं चिय गुत्तिविसुद्धीफलं च जं चरणं । मोक्खो य दुगाहीणो चरण नाणस्स तो सारो ॥ १ ॥ ” (वि० ) अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणम्, अथवा अपिशब्दस्य व्यवहितः सम्बन्धः, तस्य - श्रुतज्ञानस्य सारश्चरणमपि, अपिशब्दान्निर्वाणमपीत्यर्थः, अन्यथा ज्ञानस्य निर्वाणहेतुता न स्यात्, किन्तु चरणस्यैव, अनिष्टं चैतत् 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' तथा 'नाणकिरियाहिं मोक्खो' इत्यादि वचनात्, केवलं सा ज्ञानस्य निर्वाणहेतुता गौणतया प्रतिपत्तव्या, मुख्यतया तु चरणस्य, यतः केवलज्ञानलाभेऽपि न तत्क्षणमेव मुक्तिरुपजायते, किन्तु शैलेश्यवस्थाचरमसमय भाविचरणप्रतिपत्त्यनन्तरम्, अतो मुख्यं कारणं निर्वाणस्य चरणं, तथा चोक्तम्- “जं सबनाणलंभानंतरमहवा न मुच्चए सबो । मुच्चर य सब संवरलाभे तो सो पहाणयारो ॥ १ ॥” (वि० ) तत उक्तम्-तस्य सारश्चरणमिति, तथा 'सारो चरणस्स निवाण 'मित्यत्र For Private & Personal Use Only ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy