________________
उपोद्घातनिर्युक्तिः
॥१०६॥
Jain Education Inter
उक्तं च- "सबेहिं गणहरेहिं, जीयंति सुयं जतो न वोच्छिन्नं । गणहरमज्जाया वा जीवं सबाणुश्चिनं वा ॥ १ (वि० ) n | अथ तीर्थकर भाषितान्येव क्रमव्यवस्थापितानि सूत्रमस्तु, गणधरसूत्रीकरणे तु को विशेषः १, उच्यते, इह भगवान् विशिष्ट - मतिसम्पन्नगणधरापेक्षया प्रभूतार्थे स्वल्पमेवार्थमात्रमभिधत्ते, नत्वितरजनसाधारणं ग्रन्थराशिं ततो गणधराणां सूत्रकृतिः, तथा चाह
अत्थं भासह अरहा सुप्तं गंधति गणहरा निउणं । सासणस्स हियट्ठाए, तओ सुत्तं पवते ॥ ९२ ॥ अर्थम् - अर्थमात्रमेवान् भाषते, न प्रभूतजनसाधारणं ग्रन्थराशिं ततो गणधराः शासनस्य हितार्थ 'निपुर्ण ' बहु सूक्ष्मार्थप्रतिपादकं निगुणं वा-नियतगुणं सन्निहिताशेषसूत्रगुणमितियावत् 'सूत्रं' द्वादशाङ्गरूपं प्रनन्ति, तत एव सूत्रं जगति प्रवर्त्तते इति, क्वचित्पाठान्तरं 'गणहरा निउणा' इति, तत्र गणधराः विशेष्यन्ते, निपुणाः सूक्ष्मार्थदर्शित्वात्, नियतगुणा निगुणा वा, सन्निहितसमस्तगुणत्वात् ॥ आह- तत्पुनः सूत्रंकिमादिकं किंपर्यवसानं कियत्परिमाणं को वाऽस्य सार इत्यत आहसामाइयमाईयं सुयनाणं जाव बिंदुसाराओ
तस्सवि सारो चरणं सारो चरणस्स निवाणं ॥ ९३ ॥
तत् श्रुतज्ञानं सामायिकमादिर्यस्य तत् सामायिकादि यावत् बिन्दुसारात् - बिन्दुसारं यावत्, बिन्दुसाराख्यचतुर्दशपूर्वपर्यन्तमित्यर्थः, तच्च मूलभेदापेक्षया द्विभेदं तद्यथा - अङ्गप्रविष्टमनङ्गप्रविष्टं च अङ्गप्रविष्टं द्वादशभेदमाचारादिभेदाद्, | अनङ्गप्रविष्टमनेकभेदमावश्यकतद्व्यतिरिक्त कालिकोत्कालिकादिभेदात् उक्तं च- "व्यनेकद्वादशभेदं श्रुत" ( तत्त्व १-) मिति,
For Private & Personal Use Only
सूत्रग्रन्धने हेतुः ९० सूत्रप्रवृतिः सूत्रादि९१-३
॥१०६॥
w.jainelibrary.org