________________
KUSUAGRAAKROAC
किमर्थमित्याह-भव्याश्च ते जनाश्च भव्यजनास्तेषां विबोधनम् तदर्थ-तन्निमित्तम्, अत्र पर आह-ननु कृतकृत्यो भगवान् ततस्तस्य परेभ्यस्तत्त्वकथनमनर्थकम् , प्रयोजनाभावात्, अथास्ति प्रयोजनं तर्हि नासौ कृतकृत्यः, प्रयोजनसापेक्षत्वादस्मदादिवत्, अन्यच्च-सर्वज्ञो वीतरागश्च भगवान् स भव्यानेव विबोधयतीत्ययुक्तं, तथाहि-सर्वज्ञत्वादसावभव्यानामपि वि-12 वोधनोपायमवगच्छति, अन्यथा सर्वज्ञत्वव्याघातप्रसङ्गात्, न च तस्य भव्येषु पक्षपातो येन भव्यानेव विबोधयति नाभ-18 व्यान् वीतरागत्वादिति, अत्रोच्यते, कृतकृत्यो भगवान् न भवति, तीर्थकरनामकर्मविपाकोदयस्याद्याप्यनुभूयमानत्वात् , तदनुभवश्च सद्धर्मदेशनादिप्रकारेणेति न तत्त्वकथनमनर्थकं, यदप्युक्तम् 'सर्वज्ञो वीतरागश्च भगवानि'त्यादि, तत्रापि यत एव भगवान् सर्वज्ञोऽत एव भव्यानेव विबोधयति,अभव्यानां बोधनोपायस्य कस्याप्यभावात्, अन्यथा अभव्यत्वायोगात् , ततो न कश्चिद्दोषः, न च पक्षपातो भव्येषु, वीतरागत्वात् केवलं तस्य भगवतस्त्रैलोक्याधिपतेः पक्षपातनिरपेक्षमविशेषेण सद्धर्मदेशनां कुर्वतो विभिन्नस्वभावेषु प्राणिषु तथा तथा स्वाभाव्याद् विवोधाविवोधकारिणी पुरुषोलूककम-12 लकुमुदादिप्यादित्यस्य प्रकाशनक्रियेव सद्धर्मदेशनक्रियोपजायते, ततो न कश्चिद्दोषः, उकं च वादिमुख्येन-"वद्वाक्य-8 तोऽपि केषाश्चिदबोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य, नाम नालोकहेतवः॥१॥ नैवाछूतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः। स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः ॥२॥" किश्च-यथा सुवैद्यः साध्यमसाध्यं वा व्याधि चिकित्समानःप्रत्याचक्षाणश्च नातज्ज्ञो न च रागद्वेषवान, एवं साध्यासाध्यभव्याभव्यकर्मरोगमपनयन्ननपनयंश्च नातज्ज्ञो न च रागद्वेषवान् , यथा वा योग्ये दलिके रूपं कुर्वन् अयोग्ये चाकुर्वन् रूपकारो नातज्ञो नवा रागद्वेषवान।
Mw.iainelibrary.org
For Private & Personal use only
Jain Education Inter