________________
सूत्ररचना ८९-९०
%
*
4.
उपोद्धात
नस्य नियुक्तिं कीर्तयिष्यामीति, तत्र तेषामेव तीर्थकरगणधराणां शीलादिसम्पत्समन्वितताप्रतिपादनार्य गाथाद्वयमाहनियुतिः तष-नियम-नाणरुक्खं आरूढो केवली अमियनाणी। तो मुयाइ नाणवुहि भवियजणविवोहणट्टाए॥८॥
तं बुद्धिमएण पडेण गणहरा गिण्हि निरवसेसं । तित्थयरभासियाइं गंथंति तओ पवयणट्ठा ॥९॥ ॥१०४॥
रूपको नामात्रालङ्कार, तत्र वृक्षो द्रव्यतो भावतश्च, द्रव्यतः प्रधानो वृक्षः कल्पवृक्षः, यथा तमारुह्य कश्चिद् गन्धादिगुणसमन्वितानां कुसुमानां सञ्चयं कृत्वा तदधोभागवतिनां पुरुषाणां तदारोहणासमर्थानामनुकम्पया कुसुमानि बिस्जति, तेऽपि च भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटैः प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुञ्जानाः परेभ्यश्चोपकुर्वाणाः सुखं प्रामुवन्ति, एवं भाववृक्षेऽपि सर्वमिदमायोज्यं, तद्यथा-तपश्च नियमश्वज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तपोनियमज्ञानवृक्षः तम्, अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्त्विन्द्रियनोइन्द्रियसंयमः, तत्र श्रोत्रादीनां संयमनं इन्द्रियनियमः, कोधादीनां विनिग्रहो नोइन्द्रियसंयमः, ज्ञानमिह केवलज्ञानं परिगृह्यते,तस्यैव सम्पूर्णत्वात, उत्तरत्र केवलिग्रहणाच्च, इत्थंभूतं वृक्षमारूढः,इह ज्ञानं सम्पूर्णमसम्पूर्ण च भवति ततः सम्पूर्णज्ञानपरिग्रहार्थमाह-केवलं-सम्पूर्णज्ञानमस्यास्तीति केवली,असावपि त्रिविधः, तद्यथा श्रुतकेवली क्षायिकसम्यक्त्वकेवलीक्षायिकज्ञानकेवली, यदिवा चतुविधा,तद्यथा-श्रुतकेवली अवधिकेवली मनःपर्यायज्ञानकेवली केवलज्ञानकेवलीति,तत्र श्रुतादिकेवलिव्यवच्छित्तये केवल
ज्ञानेन केवलित्वं प्रतिपिपादयिषुराह-अमितज्ञानी,अमितज्ञानेन केवलीति भावार्थः, स चेह प्रक्रमाद् भगवान् चतुस्लिं-12 दाशदतिशयसम्पन्नस्तीर्थकरः, 'तोति ततो वृक्षात् ज्ञावरूपकुसुमदृष्टिं कारणे कार्योपचारात् ज्ञानकारणभूतशब्दकुसुमवृष्टिं,
॥१०४॥
Jain Edmann
For Private & Personal Use Only
dow.jainelibrary.org