SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ लिवाए सदेवमणुयासुराए परिसाए लजाइन तरइ वारे ताहे विसजेइत्ति,ततो मिगावई पज्जोयस्स उदयणं कुमारं निक्लेवगनिखिकाउण पबइया,पजोयस्सवि अट्ठअंगारवईपमुहाओदेवीओपबइयातो,ताणिविपंच चोरसयाणि तेण गंतूण संबो|हियाणि,एवं पसंगेण मणियं, एत्थ इहगापरंपरगेणाहिगारो,एस दवपरपरंगोसाम्प्रतं नियुक्तिस्वरूपाभिधानार्थमिदमाह| निजुत्ता ते अत्था जंबद्धा तेण होइ निजुत्ती । तहवि य इच्छावेइ विमासि मुत्तपरिवाडी ॥ ८८॥ यद्-यस्मात् सूत्रे निश्चयेनाधिक्येन साधु वा आदौ वा युक्ताः-सम्बद्धा निर्युक्ताः, नियुक्ता एव सन्तस्ते श्रुताभिधेया ई जीवाजीवादयोऽर्था अनया प्रस्तुतनिर्युक्त्या बद्धा-व्यवस्थापिता व्याख्याता इतियावत् तेनेयं भवति नियुक्ति, नियुकानां-सूत्रे प्रथममेव सम्बद्धानां सतामर्थानां व्याख्यारूपा युक्तियोजन नियुकयुक्तिरिति प्राप्ते शाकपार्थिवादिदर्शनात् युफलक्षणस्य पदस्य लोपात् नियुक्तिरिति भवति, ननु यदि प्रथममेव सूत्रेऽर्थाः सम्बद्धा एव सन्ति तर्हि किमिति ते नियुक्त्या व्याख्यायन्ते !, सम्बद्धानां स्वयमेव विनेयवर्गेणाववुद्यमानत्वात्, तत आह- तहवियेत्यादि, यद्यपि सूत्रे सम्बद्धा एवार्थाः सन्ति तथापि तान् सूत्रे निर्युक्तानपि अर्थान् विभाषितु-व्याख्यातुं सूत्रपरिपाटी-सूत्रपद्धतिः एषयतीव एषयति-प्रयोजयति, इयमत्र भावना-अप्रतिबुद्ध्यमाने श्रोतरि गुरुं तदनुग्रहार्थ सूत्रपरिपाट्येव विभाषितुमेषयति, इच्छत इच्छत मांप्रतिपादयितुमितीत्थं प्रयोजयतीवेति,क्वचित् सूत्रपरिपाटी मिति पाठः, तत्रैवं व्याख्या-शिष्य एव सूत्रपरिपाटीमनवबुसमानो गुरुमिच्छायां प्रवर्त्तयति-इच्छत इच्छत मां विभाषितुं-व्याख्यातुं सूत्रपरिपाटीमिति, व्याख्या च नियुक्ति अतः पुनर्योजनरूपा नियुकिरित्थमदोषायेति॥ इह प्रागिदमुक्छम् अर्थपृथक्त्वस्य तैस्तीर्थकरगणधरैः कथितस्य श्रुतज्ञा Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy