SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat न खल्वयं व्यवहारो मन्वादिप्रणीतव्यवहार इव व्यंसकः 'सच्चपद्मा खु ववहारा' (३-२३६) इति वचनात्, तथा सूर्यप्रज्ञप्तेर्वश्ये, तथा ऋषिभाषितानां च - देवेन्द्रस्तवादीनाम्, अनेकशः क्रियाभिघानं शाखान्तरविषयत्वात्, समासव्यासरूपत्वाच्च शाखारम्भस्येत्यदुष्टम्, 'एतेषां श्रुतविशेषाणां निर्युक्किं वक्ष्याम्यहं जिनोपदेशेन, न तु स्वमनीषिकया, कथंभूतामित्याह - आहरणहेतुपदनिवहाम्, इमाम्-अन्तस्तत्त्वतया निष्पन्नां 'समासेन' सङ्क्षेपेण, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं, दृष्टान्त इति भावः, साध्ये सत्येव भवति साध्याभावे च न भवत्येवं साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घ्य प्रथमं दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ- कचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो मत्स्यादीनां सलिलमिव, तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्वो विशिष्ट चिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा च नियुक्तिकारेणाभ्यधायि - “जिणवयणं सिद्धं चेव, भन्नई कत्थई उदाहरणं । आसज्ज उ सोयारं हेऊवि कहिंचि भण्णेज्जा ॥१॥ ( ५ - ४९ ) इति, कारणम् - उपपत्तिमात्रं, यथा निरुपमसुखः सिद्धः, ज्ञानानावाधप्रकर्षात्, नात्राविद्वदङ्गनादिलोके प्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, आहरणं च हेतुश्च कारणं च आहरणहेतुकारणानि तेषां पदान्याहरण हेतु कारणपदानि तेषां निवहः- सङ्घातो यस्यां निर्युक्तौ सा तथाविधा तां । तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथमतोऽधिकृतावश्यकाध्ययनस्य सामायिकस्योपोद्घातनिर्युक्तिमभिधित्सुराह— सामाइपनि जुतिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आग़यं आणुपुवीए ॥ ८७ ॥ सामायिकस्य निर्युक्तिः सामायिकनिकिस्तां बक्ष्ये, कथंभूतामित्याह - उप-सामीप्येन देशिता उपदेशिता तां, केन १ For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy