SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥१००॥ Jain Education Interna नीतं तद्वंशोऽप्यानयनद्वारेणोपकारीति वन्द्यः, प्रवचनं तु साक्षाद्वृत्त्यैवोपकारीति वन्द्यमिति । इदानीं प्रकृतमुपदर्शयतिते बंदिऊण सिरसा अत्थपुहुत्तस्स तेहिं कहियस्स । सुयनाणस्स भगवओ निज्जुत्ति कित्तइस्सामि ॥ ८३ ॥ तान् - अनन्तरोक्तान् तीर्थकरादीन् शिरसा उपलक्षणत्वात् मनः कायाभ्यां च वन्दित्वा, किम् ? - नियुक्तिं कीर्त्तयिप्यामि, कस्य - ' अर्थपृथक्त्वस्य' अर्थात् कथञ्चिद्भिन्नत्वात् सूत्रं पृथक् उच्यते, प्राकृतत्वाच्च पृथगेव पृथक्त्वम्, अर्थस्तु सूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं च अर्थपृथक्त्वं समाहारो द्वन्द्वः तस्य, श्रुवज्ञानविशेषणमेतत् सूत्रार्थोभयरूपस्येत्यर्थः, तैः - तीर्थकर गणधरादिभिः कथितस्य प्रतिपादितस्य कस्येत्याह श्रुतज्ञानस्य भगवतः, स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं सम्बन्धनं निर्युक्तिः, तां कीर्त्तयिष्यामि -- प्रतिपादयिष्यामि । ननु किमशेषश्रुतज्ञानस्यः, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनाम्, अत आह— भवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निज्जुत्तिं वोच्छामि तहा दसाणं च ॥ ८४ ॥ कप्परस य नितिं यवहारस्सेव परमनिउणस्स । सूरि अपण्णत्तीए वोच्छं इसिभासिआणं च ॥ ८५ ॥ एएसि निजन्ति वोच्छामि अहं जिणोवएसेणं । आहरण-हेउ-कारणपयनिवहमिणं समासेणं ॥ ८६ ॥ आवश्यकस्य दशवैकालिकस्य तथा 'भामा सत्यभामे' त्यादाविव पदैकदेशे पदसमुदायोपचारात् 'उत्तरज्झे 'त्युत्तराध्ययनग्रहणं, ततोऽयमर्थः - उत्तराध्ययनाचारयोः, तथा 'सूत्रकृते' सूत्रकृताङ्गविषयां निर्युक्तिं वक्ष्ये, तथा दशानां च दशाश्रुतस्कन्धस्य तथा कल्पस्य तथा व्यवहारस्य च परमनिपुणस्य, अत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वन्यंसकत्वात्, For Private & Personal Use Only गणधरा दिवन्दनं दशनिर्युकिप्रतिज्ञा गा. ८२-६ ॥१००॥ ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy