SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ | भागोऽस्य महाभागो - महाप्रभावस्तं, तथा मनुते मन्यते वा जगतस्त्रिकालावस्थामिति मुनिः सर्वज्ञत्वात, महांश्चासौ मुनिश्च महामुनिः, तथा त्रैलोक्यव्यापित्वान्महद्यशोऽस्येति महायशास्तं, महावीरमित्यभिधानं, तस्येयं व्युत्पत्तिः 'शूर वीर विक्रान्ती' | कषायादिशत्रुजयात् महाविक्रान्तो महावीरः, यदिवा 'ह विदारणे' विदारयति कर्म्मरिपुसङ्घातमिति वीरः, अथवा अनन्यानुभूतमहातपः श्रिया विशेषतो राजते इति वीरः, अन्तरङ्गमहामोहबउनिर्दलनाय तपोवीर्यमनन्तं व्यापारयतीति वा वीरः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः, उक्तं च- “ विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर | इति स्मृतः ॥ १ ॥” तथा अमराश्च नराश्च अमरनरास्तेषां राजानः - इन्द्रचक्रवर्त्तिप्रभृतयस्तै महितः -पूजितस्तं, तीर्थकरंतीर्थकरणशील, कस्य तीर्थस्य करणशीलमित्यत आह-अस्य वर्त्तमानकालावस्थायिनस्तीर्थस्य । एवं तावदर्थवक्तुर्मङ्गलार्म वन्दनमुक्तम्, इदानीं सूत्रकर्तृप्रभृतीनामपि पूज्यत्वाद्वन्दनमाह एक्कारसवि गणहरे पवायए पवयणस्स वंदामि । सर्व्वं गणहरवंसं वायगवंसं पवयणं च ॥ ८२ ॥ एकादशेति सङ्ख्यावाचकः शब्दः, अपिः समुच्चये, अनुत्तरं ज्ञानदर्शनादिधर्म्मगणं धारयन्तीति गणधरास्तान्, प्रकर्षेण | प्रधाना आदौ वा वाचकाः प्रवाचकास्तान्, कस्य प्रवाचकाः १, प्रवचनस्य द्वादशाङ्गस्य, वन्दे, एवं तावत् मूलगणधरवन्दनं कृतं, | तथा सर्वे - निरवशेषं गणधरा - आचार्यास्तेषां वंशः - परम्परया प्रवाहस्तं तथा वाचका उपाध्यायास्तेषां वंशस्त्रं, तथा प्रवचनम् - | आगमं च वन्दे, आह च-तीर्थकृतो मूलगणधराश्च वन्द्याः स्युः, तेषां यथाक्रममर्थसूत्रप्रणेतृत्वात्, वंशद्वयस्य प्रवचनस्य च कथं वन्द्यता, उच्यते, इह यथा अर्थवकारोऽर्हन्तो वन्याः सूत्रवकारश्च गणधरास्तथा यैरिदमाचार्योपाध्यायैरर्यसूत्ररूपं प्रवचनमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy