SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Jain Education Internatio भगाव्यभिचारात् ततः किमनेन विशेषणेन ?, तदयुक्तम् अस्य नयमवान्तरावलम्बिपरिकल्पितबुद्धादितीर्थकर तिरस्कार परत्वात् तथाहि न ते बुद्धादयः स्वस्वदर्शनरूपतीर्थकारिणोऽपि तत्त्ववृत्त्या भगवन्तो, यथोक्तसमग्रैश्वर्यादिगुणकलापायोगादिति, तथा परे - शत्रवः ते च द्विधा- द्रव्यतो भावतश्च तत्र द्रव्यतो मत्सरिणो भावतः क्रोधादयः, इह भावशत्रुभिः प्रयोजनं तेषामेवोच्छेदतो मुक्तिभावात्, आक्रमणमाक्रमः- पराजयः उच्छेद इतियावत् परेषामाक्रमः पराक्रमः सोऽनु|तर:- अनन्यसदृशो येषां तेऽनुत्तरपराक्रमास्तान्, वन्दे इति क्रिया सर्वत्र योज्या, आह-ये खल्वैश्वर्यादिभगवन्तस्तेऽनुतरपराक्रमा एव, तमन्तरेण विवक्षितभगासम्भवात्, ततोऽनुत्तरपराक्रमानित्येतदतिरिच्यते, नैष दोषः, अस्य अनादिसिद्धैश्वर्यादिसमन्वित परमपुरुषप्रतिपादनपरनयवादनिषेधपरत्वात्, तथाहि — कैश्चिदनुत्तरपराक्रमत्वमन्तरेणैव हिरण्यगर्भा दीनामनादिविवक्षित भगयोगोऽभ्युपगम्यते, उक्तं च- "ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्य चैव धर्म्मश्च, सहसिद्धं चतुष्टयम् ॥ १ ॥" इत्यादि, तथाभूतान् भगवतस्तीर्थकरान् मा ज्ञासिषुर्विनेया इति तद्व्यवच्छेदार्थमनुत्तरपराक्रमानित्युक्तं, तथा अमितम् - अपरिमितं ज्ञेयानन्तत्वात् ज्ञानं केवलज्ञानं अमितज्ञानं तद्येषामस्ति तेऽमितज्ञानिनस्तान, ननु ये अनुत्तरपराक्रमास्तेऽमितज्ञानिन एव, क्रोधादिपरिक्षयोत्तरकालमवश्यममितज्ञानस्य भावात्, सत्यमेतत्, केवलं ये क्लेशक्षयेऽप्यमितज्ञानं नाभ्युपगच्छन्ति, तथा च तद्ग्रन्थः, “सर्वे पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसङ्ख्यापरि ज्ञानं, तस्य नः क्वोपयुज्यते ? ॥ १ ॥" इत्यादि, तन्मतव्यवच्छेदफलमिदं विशेषणमित्यदोषः, तद्व्यवच्छेदश्चैवम्- सर्वभावपरिज्ञानाभावे तत्त्ववृत्त्या एकस्यापि वस्तुनः परिज्ञानायोगात्, सर्वस्यापि यथायोगमनुवृत्तव्यावृत्तधर्म्मतया सर्वैः सह For Private & Personal Use Only wwjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy