SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युतिः ॥ ९८ ॥ Jain Education Interna दिवा दीक्षात्यागस्य निर्दोषताश्रवणाञ्च सुखेनैव मोक्षणसम्भवाञ्च तथा यत् सुखेन स्वीक्रियते दुःखेन परित्यज्यते तत् सुखावतारं दुरुत्तारं तच्च बौद्धं शासनं, तत्र हि 'मृद्वी शय्या प्रातरुत्थाय पेया, भक्कं मध्ये पानकं चापरा । Farखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥ तथा - " मणुण्णं भोयणं भुच्चा, मणुण्णं सवणासणं । मणुष्णंसि अगारंसि, मणुण्णं झायए मुणी ॥२॥” इत्याद्यभिधानतो विषयसुखसिद्धेः सुखेनैत्र प्रवेशः, तथा निपुणकुयुक्तिवस्तीव्रवासनोत्पादात् व्रतत्यागे महतः संसारदण्डादेः प्रतिपादनाञ्च दुःशकस्तत्परित्यागः, तथा यत्र दुःखेन प्रवेशः सुखेन च विनिर्गमः तद् दुःखावतारं सुखोत्तारं तच्च दिगम्बरं दर्शनं तद्धि नायमतिदुष्करं लज्जास्पदत्वादिति दुःखेन प्रविश्यते, अनेषणोयपरिभोगकपाय बाहुल्यदर्शनतस्तु तद्विरागोपपत्तेः सुखेन परित्यज्यते इति चतुर्थभङ्गगतं त्विदं पारमेम्बरं प्रवचनम्, अत्र हि रागद्वेष कषायेन्द्रियपरीषहोपसर्गादिजयस्य सदा अप्रमत्तभावस्य शिरोलुञ्चनादिकष्टानुष्ठानस्य च प्रतिपादनान्महता कष्टेन प्रवेशः प्रविष्टस्य च तत्त्वाधिगमेनामोचनात्, एतद्वतं त्विह संसारपरित्राणकारणं व्रतभने च महान् संसार इति जानानस्य दुष्करपरित्यागः, उक्तं च- " अहव सुहोत्तारोचारणाइ दबे चउविहं तित्थं । एवं चिज भावं| मिवि तत्थाइमयं सरक्खाणं ॥१॥ तच्चण्णियाण बीयं विसयसुहकुसत्थभावणाधणियं । तइयं च बोडियाणं चरिमं जइणं सिवफलं तु ॥२॥ (वि. १०४०- १) तत्र दुःखावतारदुःखोचाररूपपरमतीर्थकरणशीलास्तीर्थकरास्तान् वन्दे इति योगः, तथा भगः| समधैश्वर्यादिलक्षणः स येषामस्तीति भगवन्तः, उक्तं च- "इस्सरियस्वसिरिजसधम्मपयत्ता मया भगाभिक्खा । ते वेसिमसासम्णा चेति जतो तेण भगवंतो ॥१॥” (वि. १०४८) ग्रान्, ननु तीर्थकरानि त्यनेनैव भगवत इति गतं, तीर्थकृतामुतलक्षण For Private & Personal Use Only तीर्थकरवन्दनम् ॥ ९८ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy