SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ क्रियासव्यपेक्षाध्यवसायजन्यस्य तत्प्रत्यनीकक्रियासहगताध्यवसायत एव क्षयसम्भवात् ,ततो भाविमलोत्पत्तिनिरोधाभावतः प्राचीनमलक्षयाभावतश्च भवतरणानुपपत्तेने भावतीर्थ नद्यादितीर्थमिति, भावतीर्थ द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता उपयुक्तः, नोआगमतः सङ्घः सम्यग्दर्शनादिपरिणामानन्यत्वात्, उक्तंच-"तित्थं भंते! तित्थं तित्थयरे तित्थं!, गोयमा! अरिहाताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णोसमणसंघो"इति(१२-६८२)अस्मिंश्चभावतीर्थे तरीता तद्विशेष एव साधुः, सम्यग्दर्शनादित्रयंकरणभावापन्नं तरणं, तरणीयः संसारसमुद्रः, आह च-"भावे तित्थं संघो सुयवि|हि तारतो तहिं साहू । नाणाइतियं तरणं तरियबोभवसमुद्दो अ॥१॥"(वि.१०३२) अथवा यथा नद्यादिगतः समो विभागोऽनपायः पङ्कप्रक्षालनाद्दाहोपशमात्पिपासाव्यवच्छेदातीर्थमिति प्रसिद्धं, पृषोदरादिदर्शनतखिषु स्थितमिति तीर्थमिति व्युत्पत्तेः, एवं सहोऽपि कर्ममलक्षालनात् क्रोधाग्निदाहोपशमात् लोभरूपतृष्णाव्यवच्छेदाच त्रिषु स्थित इति तीर्थमित्युउच्यते, उक्तंच-"पडूदाहपिपासानामपहारं करोति यत् । तद्धर्मसाधनं तथ्यं, तीर्थमित्युच्युते बुधैः॥१॥" अथवा नद्या दिगतं द्रव्यतीथं चतुर्दा दृष्टं, तद्यथा-सुखावतारं सुखोत्तारं १ सुखावतारं दुरुत्तारं २ दुःखावतारं सुखोत्तारं ३ दुःखा-18 वतारं दुरुचारं ४, एवं भावतीर्थमपि चतुर्की द्रष्टव्यं, तत्र यत्र सुखेनैवावतरन्ति-प्रविशन्ति प्राणिनः सुखेनैव च यत उत्तरन्ति-यन्मुञ्चन्ति तरसुखावतारं सुखोतारं, तच्च शैवं द्रष्टव्यं, तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गमनोवाकायजयादिलक्षणदुष्करानुष्ठानाभावतः सुखेनैव प्रवेशात्, निपुणयुक्त्यभावतो निविडवासनाया आकालपरिपालनहेतुभूताया अयोगतः, “शैवोद्वादश वर्षाणि, व्रतं कृत्वा ततः परम् । यद्यनकस्त्यजेत् पश्चाद, यागं कृत्वा व्रतेश्वरे ॥१॥" इत्या Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy