________________
उपोद्घात निर्युक्तिः
॥ ९७ ॥
Jain Education Intern
तीर्यतेऽनेनेति तीर्थ, तु दिरमिहनिनी कुपपागोरविकाशिवचिरिचिसिचिभ्यः कि' दिति कित्प्रत्ययः, तच्च नामादिभेदाच्चतुर्धा, तद्यथा-नामतीर्थं स्थापनातीर्थ द्रव्यतीर्थ भावतीर्थ च, नामस्थापने सुगमे, द्रव्यतोऽपि यावत् नोआगमतो ज्ञशरीरभव्यशरीरे, तद्व्यतिरिक्तं नद्यादीनामनपायः समो विभागः, तीर्थसिद्धौ च त्रितयं सिद्धं तद्यथा - तरीता तरणं तरणीयं च, तत्र पुरुषस्तरीता बाहूडुपादि तरणं नद्यादि तरणीयं द्रव्यता स्वस्य तीर्णस्यापि पुनस्तरणीयभावात्, कदाचिदपायसम्भवेनानेकान्तिकत्वाच्च, अथ तीर्थ नद्यादिस्नानतीर्थ पुराणेषु प्रसिद्धं गीयते, न शेषं तच्च भवतारणात्तीर्थमिति, तदसम्यक्, तस्यापि बाह्यमलमात्रापनयनकारितया द्रव्यतीर्थत्वानतिक्रमात्, न खलु तदान्तरं मलमपनेतुं समर्थम्, आन्तरो हि मलः सर्वथा समुच्छिन्नो भवति 'भाविमलोत्पत्तिनिरोधतः प्राचीनमल विध्वंसतश्च तत्र भाविमलोत्पत्तिनिरोधस्ताव तीर्थस्नानान्न भवति, मलो हि प्राणातिपातादिकारणपूर्वकस्ततस्तन्निवृत्त्यैव तदुत्पत्तिनिरोध उपजायते, न तीर्थस्नानमात्रात्, अत एवोक्तमत्र धर्मकीर्त्तिना - " वेदप्रामाण्यं कस्यचित्कर्तृवादः, स्नाने धर्मेच्छाजातिवादावलेपः । सन्तापारम्भः पापहानाय चेति, ध्वस्तप्रज्ञाने पञ्च लिङ्गानि जाये ॥ १ ॥ अन्यच्च तीर्थस्नानं विशेषतो भाविमलोत्पत्तिकारणं, न पुनस्तदुत्पत्तिनिरोधहेतुः, जीवोपघात हेतुत्वादुदूखलाद्यधिकरणवत्, तथाहि - तीर्थस्नानं कुर्वता विराध्यन्ते बहवोऽष्कायिका जीवा इति, प्रतीतमेतत् तत्त्ववेदिनां, तत उदूखलाद्यधिकरणमिव शूनाङ्गमिदमिति न भवतारणायोपजायते, इतश्च न भवतारणकारणं - कामाङ्गतया यतिजनायोग्यत्वात्, मण्डनवत्, आह च "सूणंगंपि व तमुदूखलं व न य मोक्खकारणं व्हाणं । न य जइजोग्गं तं मंडणंव कामंगभावातो ॥१॥” (वि. १०३०) नापि प्राचीनमलोच्छेदहेतुः, प्राचीनमलस्य विशिष्ट
For Private & Personal Use Only
तीर्थकरव
न्दनम् गा.
८७
॥ ९७ ॥
Www.jainelibrary.org