________________
सहि प्रतिद्वारं प्रत्यध्ययन प्रतिसूत्र - पकव्यमिति, ततः कश्चिदेवं प्रतिविधानमाह-माल हि शाखसादौ मध्येऽवसाने बेति प्रतिपादितं, तबादिमङ्गलं ज्ञानपञ्चकरूपमुक्तमिदानींमध्यमङ्गलमुच्यते इति, तदेतदयुक्त, शाखमेव हि तावन्नरभ्यते, अनारब्धे नु शास्त्रे कुतो मध्यावकाश इति । अथ ब्रूयात् चतुरनुयोगद्वारं शास्त्रम्, अत एव चानुयोगद्वाराणां शास्त्राङ्गता, ततोऽनुयोगद्वारद्वये उपक्रमनिक्षेपरूपेऽतिक्रान्ते मध्यावकाश इति भवति मध्यमकलावसरः, नन्वेवमपीदा शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात् , शास्त्रमध्ये च मध्यमङ्गलावसर इति यत्किञ्चिदेतत्, तस्मादयमत्र पक्षःश्रेयान्इह यददौ महल प्रतिपादितं तदावश्यकस्यादिमङ्गलं, इदं तु वक्ष्यमाणं न आवश्यकस्य, किन्तु सर्वानुयोगोपयोग्युपो. घातनियुक्तिरूपः प्रकान्त उपोद्घातः नस्य, सर्वानुयोगोपयोगित्वेनास्य महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वात्, तथा च सर्वानुयोगोपयोगितामेव दर्शयन् वक्ष्यति “आवस्सयस्स दसकालियस्स तह उत्तरज्झमायारे । सूयगडे निजुत्ति वोच्छामि तहा दसाणं च ॥१॥” इत्यादि, तथा “सेसेसुवि अज्झयणेसु होइ एसेव निजुत्ती' इत्यत्र शेषेष्वप्यध्ययनेषुचतुविशतिलवादिष्विति, आह–सामायिकान्वाख्यानेऽधिकृते कोऽत्र दशवैकालिकादीनां प्रस्तावो येन तदुत्क्षेपोऽत्र क्रियमाणः शोभते ?, उच्यते, उपोद्घातसामान्यात्, तथाहि तेषामपि प्रायः खल्वयमेवोपोद्घातः, स्तोको विशेषः, सच स्वस्वनियुको वक्ष्यते इत्यदोषः, इत्यलं प्रपञ्चेन । तत्रोपोद्घातस्यादिमङ्गलमाह
तित्थयरे भगवंते अणुत्तरपरकमे अमियनाणी। तिन्ने सुगहगहगए सिद्धिपहपदेसए वंदे ॥८॥ तीर्थ कुर्वन्तीत्येवंशीलास्तीर्थकराः, 'हेतुतच्छीलानुक्लेष्वित्यादिना प्रत्ययः, अर्थ तीर्थमिति कःशब्दार्थः १, उच्यते,
Jain Education Intern
For Private & Personal use only
www.jainelibrary.org