________________
N
उपोदात नियुक्तिः
ओघनिष्पनादिभेदाः
अलोगोध । आयो नाणाईणं झवणापावाण खवर्णति ॥२॥" (वि.९६०-१) नामनिष्पन्ने निक्षेपे सामायिकमिति विशेषनाम, तच्च नामादिभेदाच्चतुर्विधमिदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः, आह-यदि तदिह नाम अवसरप्राप्तं तर्हि किमिति निरुक्त्यादावस्य स्वरूपप्रतिपादनं तत्र चेत् स्वरूपाभिधानमस्य तर्हि कस्मादत्रोपन्यासः?, उच्यते, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येत्यदोषः, नन्वेवमपि निरुक्तिद्वार एव यदि सामायिकव्याख्यानं ततः किं सूत्रे पुनरभिधीयते ?, तदसम्यक्, वस्तुतत्त्वापरिज्ञानात्, सूत्रे हि सूत्रालापकव्याख्यानं, न तु नाम्नः, निरुतौ तु निक्षेपद्वारन्यस्तं सामायिकमित्यध्ययनाभिधानं निरूप्यते, इत्यलं प्रसङ्गेन, उक्तो नामनिष्पन्नो निक्षेपः । सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च प्राप्तावसरोऽपि न निक्षिप्यते, कस्मादिति चेत् , उच्यते, सूत्राभावाद्, असति हि सूत्रे कस्यालापकस्य निक्षेपः१, ततोऽस्तीतः तृतीयमनुयोगद्वारमनुगमाख्यं तत्रैव निक्षेप्स्यामः, आह-यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते ततः किमित्युपन्यस्यते !, उच्यते, निक्षेपसामान्यात्, आह च-"इह जइ पत्तोऽवि तओन नस्सए कीस भण्णए इहई ।।दाइजइ सो निक्खेवमित्तसामण्णतो नवरं ॥१॥" (वि.९७०) इदानीमनुगमावसरः, स च द्विधा-नियुक्त्यनुगमः सूत्रांनुगमश्च,नियुक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शकनियुक्त्यनुगमश्च, तत्र निक्षेपनियुक्त्यनुगमो नाम यदधो नामादिन्यासान्व्याख्यानमुक्तं ततः सोऽनुगत एव, इदानीमुपोद्घातनिर्युक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षणः, ततोऽस्य महार्थत्वात् मा भूद्विघ्न इति प्रारम्भेऽस्य मङ्गलमुच्यते, आह-ननु मङ्गलं प्रागेवोकं ततः किं पुनस्तेन', अथ कृतमङ्गलैरपि पुनर्मङ्गलमभिधीयते
%
AGAGAKARACK
%
%
Jain Education Inter
For Private & Personal use only
A
w w.jainelibrary.org