SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Jain Education International व्यतायां समवतारणीयानि, परसमयप्रतिपादकानां उभयसमयप्रतिपादकानामपि सम्यग्दृष्टेः स्वसमयत्वात्, हेयोपादेयार्थानां सम्यक् हेयोपादेयतया परिज्ञानात्, आह च-परसमओ उभयं वा सम्मद्दिट्ठिस्स ससमओ जेणं । तो सब - | झयणाई ससमयवत्तवनिययाई ॥ १ ॥ ( वि. ९५३ ) ” इदानीमर्थाधिकारः, स चाध्ययनसमुदायार्थः, स च स्वसमयवक्तव्यतैक| देशः, स च सावद्ययोगविरतिरूपः । इदानीं समवतारः, स च लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव, उक्त उपक्रमः । इदानीं निक्षेपः, स च त्रिविधस्तद्यथा - ओघनिष्पन्नो नामनिष्पञ्चः सूत्रालापक निष्पन्नश्च तत्रौघो नाम सामान्यं शास्त्राभिधानं तच्चेह चतुर्विधम्-अध्ययन १ मक्षीण २ मायः ३ क्षपणा ४ च, उक्तं च- “ओहो जं सामन्नं, सुयाभिहाणं | चउबिहं तं च । अज्झयणं अज्झीणं आओ झवणा ये पत्तेयं ॥ १॥” (वि. ९५८) पुनरेकैकं नामादिभेदाच्चतुर्विधं, तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं च, तथा नामाक्षीणं स्थापनाक्षीणं द्रव्याक्षीणं भावाक्षीणं, तथा | नामायः स्थापनायो द्रव्यायो भावायः, नामक्षपणा स्थापनाक्षपणा द्रव्यक्षपणा भावक्षपणा च एतानि च यथा|ऽनुयोगद्वारेषु तथा प्ररूप्येदं सामायिकमध्ययनं भावाध्ययने भावाक्षीणे भावाये भावक्षपणायां चायोज्यं, तत्र यस्माद| नेन शुभमध्यात्मं जन्यतेऽथवाऽध्यात्ममानीयते, अधिकं वा अयनं बोधस्य संयमस्य मोक्षस्य वा इदमित्यध्ययनमाद्यव्युत्पत्तिपक्षद्वये पृषोदरादित्वादिष्टरूपनिष्पत्तिः, तथा शिष्येभ्योऽनवरतं दीयमानमप्यव्युच्छित्तिनयापेक्षया न क्षयमुपयात्य| लोकवदित्यक्षीणं, ज्ञानदर्शनचारित्राणां प्राप्तिहेतुत्वादायः, पापकर्मक्षपणहेतुत्वात् क्षपणा, उक्तं च- "जेण सुहज्झप्पजणणं| अज्झष्पाणयणमडियमयणं वा । बोहस्स संजमस्स व मोक्लस्स व जं तमन्झयणं ॥१॥ अज्झीणं दिज्वंतं अबोच्छित्तिनयतो For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy