________________
नामप्रमाणे
उपोद्धात- त्तरोऽप्यागमः सूत्रार्थोभयरूपत्वात् त्रिविध एव तत्रेदं कान्तर्भवति !, उच्यते, सामायिकस्य सूत्राओंभयरूपत्वानियुक्तिः त्रिविधेऽपि लोकोत्तरागमे, उक्तं च-"जीवानन्नत्तणतो जीवगुण बोहभावतो नाणे । लोगुत्तरसुत्तत्योभयागमे तस्स
भावाओ॥१॥"(वि.९४७) ननु लोकोत्तर आगमस्त्रिधा, तद्यथा-आत्मागमः अनन्तरागमः परम्परागमश्च, ततः क्वेदं समवत॥ ९५॥
| रति !, उच्यते, इदं सूत्रतो गौतमादीनामात्मागमः तच्छिष्याणां जम्बूस्वामिप्रभृतीनामनन्तरागमः, प्रशिष्याणां तु प्रभवप्रमुखाणां परम्परागमः, तथा अर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां परम्परागमः एवं सूत्रतोऽर्थतश्च त्रिविधे प्रमाणेऽन्तर्भवति, उक्त च-"सुत्ताउ गणहराणं तस्सिसाणं तहा पसिस्साणं। एवं अत्ताणंतरपरम्परागमपमाणमि ॥१॥" "अत्थेण उ तित्थंकरगणहरसिस्साणमेवमेवेदं (वि.९४८॥" नयप्रमाणे तु मूढनयं कालिकश्रुतमिति नयस्य नाधुनाऽवतारः, पूर्व त्वनुयोगानामपृथग्भावे स आसीत् , यदिवा पुरुष कञ्चनापि समासाद्य नयप्रमाणतत्त्ववित् यथाशक्ति नयेऽपि समवतारं कुर्यात् , आह च-"आसि पुरा सो नियतो अणुओगाणमपुत्तभावंमि । संपइ नत्थि पुहुत्ते
होजवि पुरिसं समासज्ज ॥१॥" (वि.९५०) सम्प्रति सङ्ख्याप्रमाणं चिन्त्यते, तत्र सङ्ख्या नामस्थापनाइव्यक्षेत्रकालौपम्यपरिमानाणभावभेदादष्टप्रकारा यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकश्रुतपरिमाणसङ्ख्यायां समवतारः, तत्र सूत्रतः सामा
यिक परिमितप्रमाणं अर्थतोऽनन्तपर्यायत्वादपरिमितप्रमाणं । सम्प्रति वक्तव्यता, सा त्रिविधा, तद्यथा-वसमयवकन्यता परसमयवक्तव्यता उभयसमयवक्तव्यता चेति, तत्र समयः-सिद्धान्तः वक्तव्यता-पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य सामायिकाध्ययनस्य समवतारः, स्वसमयस्यैव अत्र प्रतिपाद्यमानत्वाद्, एवं सर्वाण्यप्यध्ययनानि स्वसमयवक्त
chodatest RAIGAR
*CROCARRARY
॥९५॥
Jain Education Inter
For Private & Personal use only
IGNww.jainelibrary.org