________________
Jain Education Interna
२१३
| स्त्येकको ज्येष्ठः किन्त्वसौ न तदधस्तान्निक्षिप्यते, पुरतः सदृशाङ्कन्यासापत्त्या समयभेदप्रसक्तेः, त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्तान्निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुलं पुरतो नसेज्ज' इति वचनात् पृष्ठतस्तु स्थापितशेषस्त्रिकः १२३ स्थाप्यते, एष षष्ठो भङ्गः ३ । २ । १ षण्णामपि च भङ्गानामियं समुदायस्थापना | अत्राद्यभङ्गस्य पूर्वानुपूर्वीत्वाच्चर१३२ मस्य च पश्चानुपूर्वीत्वान्मध्यमा एव चत्वारो भङ्गाः अनानुपूर्वीत्वेन मन्तव्याः, एवं चतुःपञ्चषट्सप्ताष्टादिपदाना३१२ मपि भङ्गकाः समानेतव्याः । इदानीं नाम वक्तव्यं-प्रतिवस्तु नमनान्नाम, तच्चैकादिदशान्तं यथाऽनुयोगद्वारेषु तथा २३१/ |३२| वक्तव्यं तत्र सामायिकस्य पण्नाम्न्यवतारः, तत्र च षट् भावा औदयिकादयो निरूप्यन्ते तत्र सर्वस्यापि श्रुतस्य क्षायोपशमिकत्वात् क्षायोपशमिके भावेऽवतारः । तथा प्रमाणं द्रव्यादि, प्रमीयतेऽनेनेति प्रमाणमिति व्युत्पत्तेः, तच्च प्रमाणं प्रमेयभेदाच्चतूरूपं, तद्यथा-द्रव्यप्रमाणं क्षेत्रप्रमाणं कालप्रमाणं भावप्रमाणं च तत्र सामायिकं भावात्मकत्वात् भावप्रमाणविषयं तच्च भावप्रमाणं गुणनयसङ्ख्याभेदात् त्रिप्रकारं, तद्यथा-गुणप्रमाणं नयप्रमाणं सङ्ख्याप्रमाणं चेति, तत्रेदं जीवगुणरूपत्वात् गुणप्रमाणेऽन्तर्भवतीति, गुणप्रमाणमपि द्विधा - जीवगुणप्रमाणमजीवगुणप्रमाणं च तत्र जीवादपृथगभूतत्वात् सामायिकस्य जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि त्रिधा, तद्यथा - ज्ञानगुणप्रमाणं दर्शनगुणप्रमाणं चारित्रगुणप्रमाणं च तत्र वोधात्मकत्वात् सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, ज्ञानगुणप्रमाणमपि चतुद्ध, तद्यथा- प्रत्यक्षमनुमानमुपमानमागमश्च तत्र सामायिकस्य प्रायः परोपदशसव्यपेक्षत्वादागमप्रमाणे समवतारः, आगमोऽपि द्विधा लौकिकलोकोत्तर भेदात्, तंत्रेदं सामायिकं सर्वज्ञप्रणीतत्वाल्लोकोत्तरे समवतरति, ननु लोको
For Private & Personal Use Only
www.jainelibrary.org