SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Jain Education International तैश्चत्वारो गुण्यन्ते जाताः चतुर्विंशतिः तथा पश्च गुण्यन्ते जातं विंशं शतं, तेन षट् गुण्यन्ते, जातानि विंशानि सप्त | भङ्गकशतानि ७२०, इह च प्रथमभङ्गः पूर्वानुपूर्वीरूपः चरमभङ्गस्तु पश्चानुपूर्वीरूपस्तदपनयनेऽष्टादशोत्तराणि सप्त शतानि | सर्वसङ्ख्यया अनानुपूर्वीभङ्गकपरिमाणं, अथवेयमनानुपूर्वीभङ्गकानामानयनोपायभूता करणगाथा - "पुवाणुपुषि हेट्ठा सम | याभेएण कुण जहाजे । उवरिमतुलं पुरओ नसेज्ज पुद्दकमो सेसे ॥ १ ॥ (वि. ९४३) अस्था अपीयमक्षरगमनिका -इह विवक्षितपदानां क्रमेण स्थापना पूर्वानुपूर्वी, तस्या अधस्ताद् द्वितीयादिभङ्गकान् जिज्ञासुः कुरु स्थापय एकादिपदानीति शेषः, कथमित्याह – ज्येष्ठस्यानतिक्रमेण यथाज्येष्ठं, यो यस्यादौ स तस्य ज्येष्ठः, यथा एकको द्विकस्य ज्येष्ठः, त्रिकस्यानुज्येष्ठः, | चतुष्कादीनां तु ज्येष्ठानुज्येष्ठः, एवं त्रिकस्य द्विको ज्येष्ठः, स एव द्विकश्चतुष्कस्यानुज्येष्ठः पञ्चकादीनां ज्येष्ठानुज्येष्ठः, एवं | सत्युपरितनाङ्कस्याधस्तात् ज्येष्ठो निक्षिप्यते तस्मिन्नलभ्यमानेऽनुज्येष्ठस्तस्मिन्नप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुरु, किमनियमेन, नेत्याह- 'समयाभेदेन' समयः - संकेतः प्रस्तुतभङ्गरचना व्यवस्था तस्य अभेदः - अनतिक्रमः तेन | समयाभेदेन निक्षेपं कुरु, समयस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्कसदृशोऽपरोऽप्यङ्कः समापतति, | तत एवम्भूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुरु, उक्तं च- “जहियम्मि उ निक्खित्ते, पुणरवि सो चेव अंकविन्नासो । | सो होइ समयभेदो वज्जयहो पयत्तेणं ॥१॥” (अनु. चू.) निक्षिप्तस्य चाङ्कस्य पुरस्तात् - अग्रतः उपरितना हैः तुल्यं - सदृशं यथा भवति एवं न्यसेत्, उपरितनाङ्कसदृशानेवाङ्कान् पुरतः स्थापयेदित्यर्थः, 'पुत्रकमो सेसे' इति यथासङ्ख्यं निक्षिघाङ्कस्य यथासम्भवं पृष्ठतः शेषे - उद्धरितशेषाङ्कानाम् पृष्ठतस्तानेवोद्धरितशेषान् पूर्वक्रमेण स्थापयेत्, यः सङ्ख्यया लघुः स प्रथमं For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy