SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥ ९३ ॥ Jain Education Interna क्ष्यन्ते इत्युपन्यस्तास्ततो न कश्चिद्दोष इत्यलं प्रसङ्गेन, उक्त इतर उपक्रमः । सम्प्रति शास्त्रीय उच्यते स षोढा, तद्यथाआनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतारः ६, तत्रानुपूर्वी दशधा तद्यथा-नामानुपूर्वी स्थापनानुपूर्वी २ द्रव्यानुपूर्वी ३ क्षेत्रानुपूर्वी ४ कालानुपूर्वी ५ गणनानुपूर्वी ६ उत्कीर्त्तनानुपूर्वी ७ संस्थानानुपूर्वी ८ ५. सामाचार्यानुपूर्वी ९ भावानुपूर्वी १०, उक्तं च- नामं ठवणादविए, खेत्ते काले य गणण अणुपुवी । उत्तिण संठाणे सामायारी य भावे य ॥ १ ॥ " एतासु दशस्वानुपूर्वीषु यथासम्भवमवतारणीयमिदं सामायिकाध्ययनं, तत्रोत्कीर्त्तनानुपूर्व्यं गणनानुपूर्व्या चाञ्जसा समवतरति, उत्कीर्त्तनं नाम संशब्दनं यथा सामायिकं चतुर्विंशतिस्तव इत्यादि, गणनं - ★ परिसङ्ख्यानं, एक द्वे त्रीणि चत्वारि, सा च गणनानुपूर्वी त्रिप्रकारा, तद्यथा- पूर्वानुपूर्वी पश्चानुपूर्वी अनानुपूर्वी च तत्र सामायिकं पूर्वानुपूर्व्या प्रथमं पश्चानुपूर्व्या षष्ठम्, अनानुपूर्व्या त्वनियतं क्वचित्प्रथमं क्वचिद् द्वितीयमित्यादि, तत्रानानुपूर्वीणामयं करणोपायः, -एगादेगुत्तरगा छगच्छगया परोप्परऽब्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपुबीणं ॥ १ ॥ (वि. ९४२) अस्या गाथाया अक्षरगमनिका - एकाद्या एकोत्तरकाः अड्डा व्यवस्थाप्यन्ते, एकोत्तरका इति एकैक उत्तरोवर्द्धमानो येषु ते एकोत्तरकाः ते च षडध्ययनप्रस्तावात् षड्गच्छगताः समवसेयाः, तत्र पण्णां गच्छः-समुदायः षड्गच्छः | तं गताः- तत्प्रतिवद्धाः ते च परस्पराभ्यस्ताः - परस्परगुणिताः प्रथमान्तिमभङ्गद्वयरहिताः सर्वसङ्ख्यारूपमनानुपूर्वीणां परिमाणं ॥ ९३ ॥ भवति, तथाहि - एकोत्तरकाः षड़ध्ययनविषयाः षडङ्काः स्थाप्यन्ते, १ । २ । ३ । ४ । ५ । ६ । ते च परस्परं गुण्यन्ते, तद्यथा - एककेन द्विको गुण्यते, जातौ द्वौ, एकेन गुणितं तदेव भवतीति वचनात्, द्वाभ्यां त्रिको गुण्यते जाताः षट् For Private & Personal Use Only अनानुपूवभेदाः w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy