________________
Jain Education interna
समादिष्टश्च विनीततया प्रसिद्धो राजपुत्रः- कुतोमुखी गङ्गा वहतीति शोधय, तेनोकम् - किमिह शोधनीयं ?, वालानामपि प्रतीतमेतत्-पूर्वाभिमुखी गङ्गा प्रवहतीति, राज्ञा प्रोचे-किमिति त्वमत्रैव वितण्डावादं करोषि ?, गत्वा निरीक्षस्व तावत्, ततो मनस्यसूयां वहन् बहिः संवृतिं कृत्वा महता कष्टेन ततः प्रदेशान्निर्गतः, सिंहद्वारे च गच्छन् केनापि मित्रेण पपृच्छे-भद्र ! क्व गतव्यं ?, तेनासूयया प्रोक्तम्- अरण्ये रोझानां लवणदानार्थ, ततो मित्रेणोक्तम् - कोऽयं व्यतिकरो ?, राजपुत्रेण सर्वमपि राजादिष्टं निवेदितं, मित्रेणोक्तं- यदि राज्ञो ग्रहः संलग्नः तत्किं तवापि संलग्नः १, गत्वा निवेदयनिरीक्षिता मया गङ्गा, पूर्वाभिमुखी वहति, तथैवानुष्ठितं राजपुत्रेण, प्रच्छन्नहेरिकेण च निवेदितं राज्ञस्तच्चेष्टितं, ततो विलक्षेण राज्ञा प्रोक्तम्-भव्यं, साधुरपि परीक्ष्यतां, ततो यः कश्चिदविनीतो राज्ञा लक्षितस्तद्विषये राज्ञा परीक्षार्थं प्रतिपादितेन गुरुणाऽभिहितः स शिष्यो- गत्वा निरीक्षस्व केन मुखेन गङ्गा वहतीति, तत्र पूर्वाभिमुखी गङ्गा वहतीति गुरवोsपि विदन्ति, परमत्र केनापि कारणेन भवितव्यमिति चेतसि निश्चित्य तेन प्रोक्तम् - इच्छाम्यादेशमिति एतच्चाभिधाय निर्गतः प्राप्तो गङ्गां निरीक्षिता सा स्वयं तदनन्तरं पृष्टा परेभ्यः तदनु शुष्कतृणादि वहनेनान्वयव्यतिरेकाभ्यां निश्चिता, ततो निवेदितमागत्य गुरुभ्यः - इत्थमित्थं च मया निश्चितं - पूर्वाभिमुखी गङ्गा वहतीति, प्रच्छन्नहेरिकेणाप्यस्य सर्व निवेदितं, ततोऽभ्युपगतं सहर्षेण राज्ञा गुरुवचनमिति । ननु यद्येवं गुरुभावोपक्रम एवाभिधातव्यो न शेषा निष्प्रयोजनत्वात्, तदयुक्तं, गुरुचित्तप्रसादनार्थं तेषामुपयोगित्वात्, तथाहि - देशकालावपेक्ष्य परिकर्मनाशौ द्रव्याणामुदकौदनादीनामाहारादिकार्येषु कुर्वन् हरति विनेयो गुरूणां चेतः, अथवोपक्रमसामान्यांत् प्रकृते निरुपयोगा अप्यन्यत्रोपयो
For Private & Personal Use Only
w.jainelibrary.org