SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मयुगीनसाधूनामुपकाराय आवश्यकस्य व्याख्यानरूपामिमां नियुक्तिं कृतवन्तः, अन्यथा सम्यक्परिज्ञानाभावतः शिष्याणां मोक्षपथप्रवृत्स्युच्छेदप्रसक्तः, कारणादेव कार्यसिद्धिभावात्, आह च भाष्यकृत्-"नाणकिरियाहि मोक्खो तम्मयमावस्सयं जओ तेणं तवक्खाणारंभो कारणओकजसिद्धित्ति॥"ज्ञानक्रियाभ्यां मोक्षो यतस्तन्मयमावश्यक। ततः तयाख्यारम्भः, कारणतः कार्यसिद्धिरिति ॥१॥] (भा.) ततः श्रोतृणामपि परम्परया मुक्तिभावाद् भवति तेषां परं प्रयोजनं निःश्रेयसावाप्तिरिति प्रयोजनवान् आवश्यकप्रारम्भप्रयासः, अभिधेयं सामायिकादि, तेषामेवास्मिन् ग्रन्थे सविस्तरमभिधास्यमानत्वात् , सम्बन्धस्तु द्विधा-उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्राद्यः तर्कानुसारिणः प्रति, तद्यथा-वचन | रूपापन्नमावश्यकमुपायः उपेयं सामायिकादिपरिज्ञानं, मुक्तिपदंवा,तस्याप्यतः पारम्पर्येण भावात् , तथाहि-अस्मात् सम्यक्सामायिकाद्यर्थपरिज्ञानं भवति, सति च तस्मिन् सम्यग्दर्शनादिवैमल्यं क्रियाप्रयत्नश्च, ताभ्यां प्रकर्षाप्ताभ्यां मुक्तिपदप्राप्तिरिति, गुरुपर्वक्रमलक्षणस्तु सम्बन्धः उपोद्घातनिर्युक्तो 'उद्देसे निद्देसे य निग्गमे' इत्यादिना ग्रन्धेन स्वयमेव नियुक्तिकृता प्राश्वेन वक्ष्यते । अत्र कश्चिदाह-ननु अधिगतशास्त्रार्थानां स्वयमेव प्रयोजनादिपरिज्ञानं भविष्यतीति निरर्थक एप शास्त्रादौ प्रयोजनाडुपन्यास इति, न, अनधिगतशास्त्रार्थानां प्रवृत्तिहेततया सफलत्वात , अथ प्रेक्षावतां प्रवृत्तिनिश्चयपूर्विका |भवति, न च प्रयोजनादावुक्तेऽपि अनधिगतशास्त्रार्थानां तनिश्चयोपपत्तिः, वचनस्य बाह्यार्थ प्रति प्रामाण्याभावात् , न च संशयतः प्रवृत्तिरुपपन्ना, प्रेक्षावत्ताक्षतिप्रसङ्गात्, ततः कथं सार्थकता अधिकृतप्रयोजनाडुपन्यासस्य ?, तदेतदतापरिभाषितभापितं, वचनस्य बाह्यार्थ प्रति प्रामाण्यभावात, अन्यथा सकलब्यवहारोच्छेदप्रसक्के, विजृम्भित चात्र %ASARASARGAMAY Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy