SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ पोदाते ४ स्वेच्छाविरचितशास्त्ववेत्याशङ्कातःप्रेक्षावन्तोन प्रवत्तेरन्, तथा मङ्गलमप्यादौ वक्तव्यं, अन्यथा कर्णाश्रोतणां चाविनेनेष्ट- अनन्तरप फलसिद्धचयोगात्, उकंच-"प्रेक्षावतां प्रवृत्त्यर्थ, फलादित्रितयं स्फुटम् । मङ्गलं चैव शास्त्रादौ,वाच्यमिष्टार्थसिद्धये ॥२॥" रम्परकतत्र प्रयोजनं द्विधा-परं अपरं च, पुनरेकै द्विधा-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य योजन नित्यत्वात् कर्तुरभाव एव, तथा चोक्तम्-"एषा द्वादशाङ्गीन कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति | ध्रुवा नित्या शाश्वती" इत्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वात् सूत्रापेक्षया त्वनित्यत्वात् कथञ्चित्कर्तृसिद्धिः, तत्र च सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः, परम्परं त्वपवर्गप्राप्तिः, उक्तंच-"सर्वज्ञोक्तोपदेशेन,यःसत्त्वानामनुग्रहम् । करोति दुःखतप्तानां,स प्रामोत्यचिराच्छिवम्॥१॥" तदर्थप्रतिपादकस्य भगवतोऽर्हतः किं प्रयोजनमिति चेत्, उच्यते, न किश्चित् , कृतकृत्यत्वात् , प्रयोजनमन्तरेणाधप्रतिपादिनप्रयासो न समीचीन इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात् , वक्ष्यति च-"तं च कहं वेइज्जइ,18 अगिलाए धम्मदेसणाए (तच्च कथं वेद्यते, अग्लान्या धर्मदेशनयैव) इति । श्रोतणामनन्तरं प्रयोजनमावश्यकश्रुतस्कन्धार्थपरिज्ञानं, परम्परं निःश्रेयसावाप्तिः, कथमिति चेत्, उच्यते, इह ज्ञानक्रियाभ्यां मोक्षः, सम्यगवबोधपुरस्सरं सावधानवद्ययोगनिवृत्तिप्रवृत्तिभ्यां सवितुः खरकिरणैर्जलार्द्रशाटिकायाः सलिलकणानामिव कर्मपरमाणूनामवयवशोऽपगमसम्भत्वात् , ज्ञानक्रियात्मकं चावश्यकं, उभयस्वभावत्वात् , तयोश्च ज्ञानक्रिययोरवाप्तिर्विवक्षिताऽऽवश्यकश्रुतस्कन्ध-15 श्रवणतो जायते, नान्यथा, तत्कारणत्वात् तदवाः , अत एव भगवंतो भद्रबाहखामिनः परमकरुणापरीतचेतस ऐदं % % २ M Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy