________________
अर्ह श्रीमन्मलयगिर्याचार्यविरचितं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनियुक्तियुतश्रीमदावश्यकसूत्रविवरणं
CALCCAMACHAR
पान्तु वः पार्श्वनाथस्य, पादपद्मनखांशवः । अशेषविघ्नसङ्घाततमोभेदैकहेतवः ॥१॥ जयति जगदेकदीपः, प्रकटितनिःशेषभावसद्भावः कुमतपतङ्गविनाशी श्रीवीरजिनेश्वरो भगवान् ॥२॥ नत्वा गुरुपदकमलं प्रभावतस्तस्य मन्दशक्तिरपि । आवश्यकनियुक्तिं विवृणोमि यथाऽऽगमं स्पष्टम् ॥ ३॥ यद्यपि च विवृतयोऽस्याः सन्ति विचित्रास्तथापि विषमास्ताः।सम्प्रति जनो हि जडधीभूयानितिविवृतिसंरम्भः | तत्र प्रेक्षावतां प्रवृत्त्यर्थमादौ प्रयोजनादिकमुपन्यसनीयं, अन्यथा न युक्तोऽयमावश्यकप्रारम्भप्रयासः निष्प्रयोजन-1 त्वात् कण्टकशाखामईनवत्, निरभिधेयत्वात् काकदन्तपरीक्षावत् , असम्बद्धत्वादश दाडिमानि षडपूषा इत्यादिवाक्वत्
सा.स.
Jain Education
For Private & Personal use only
w
.jainelibrary.org
-