SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ इति कायोत्सर्गाध्ययने व्रणचिकित्सा अधिकारः, इदमुक्कं भवति-बारित्रपुरुषस्य योऽयमतिचाररूपो भावनणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपादयिष्यते इति, 'गुणधारणा चेवेति प्रत्याख्यानाध्ययने ६ गुणधारणा अर्थाधिकारः, इदमत्र हृदयम्-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारसन्धारणं यथा भवति स्था प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्ये चापान्तरालार्थाधिकारा विज्ञेयाः, एवकारोऽवधारणे इति गाथार्थः।। एतेषां चााधिकाराणां प्रत्यध्ययनमाधिकारद्वार एवावसरः, केवलमिह प्रसङ्गत उक्काः। तदेवमावश्यकश्रुतस्कन्धानां न्यास उक्तः, इदानीमध्ययनन्यासप्रस्तावः, तं चानुयोगद्वारक्रमायातं प्रत्यध्ययनमोघनिष्पन्ने नामनिष्पन्ने च लाघवार्थ वक्ष्यामः, एप आवश्यकस्य समुदायार्थः, साम्प्रतमवयवार्थप्रदर्शनाय एकैकाध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिक, प्रथमता चास्य समभावलक्षणत्वाच्चतुर्विंशतिस्तवादीनां च तद्भेदत्वात्, अस्य च सामायिकाध्ययनस्य महापुरस्येवर चत्वारि अनुयोगद्वाराणि भवन्ति, अनुयोगो नाम सूत्रस्य व्याख्यानं तस्य द्वाराणीव द्वाराणि-तत्प्रवेशमुखानि अनुयोग-1 द्वाराणि, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि हस्त्यश्वरथजनसङ्कलत्वात् दुःखसञ्चारं कार्यातिपत्तये च जायते, कृतचतुर्मूलप्रतोलीद्वारं तु सप्रतिद्वारं सुखनिर्गमप्रवेश कार्यानतिपत्तये च, सामायिकपुरमप्यर्थाधि. गमोपायद्वारशून्यमशक्याधिगमं भवति, कृतकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रमेदोपक्रमादिद्वारचतुष्टयं तु सुखाधिगममल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगद्वारोपन्यासः, उक्कं च"अणुओगद्दाराई महापुरस्सेव तस्स पत्तारि । अणुओगोत्ति तदत्यो, दाराई तस्स उ मुहाई ॥१॥ अकयद्दारमनगरं, ka%2ॐॐॐॐॐ45 Jain Education temational For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy