SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 11 38 11 पज्जवा सुत्ते || १ || ” ( अनु - ४३ वि. ८९४) स्कन्धोऽपि नामादिभेदाच्चतुर्विधः, तत्र नामस्थापने गते, द्रव्य [श्रुत] स्कन्धो द्विधा- भाग| मतो नोआगमतश्च तत्र आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्त्रिविधो- इशरीर भव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञश*रीर भव्य शरीरे प्रतीते, तद्व्यतिरिक्तस्त्रिविधः, तद्यथा-सचित्तोऽचित्तो मिश्रश्व, तत्र सचित्तो द्विपदादिः अचित्तो द्विप्रदेशका | दिर्मिश्रः सेनादेर्देशादिः, भावस्कन्धो द्विधा-आगमतो नोआगमतश्च तत्र आगमतो ज्ञाता उपयुक्तो, नोआगमतस्त्विदमावश्यकं, नोशब्दो देशवचनः, सकलश्रुतस्कन्धापेक्षया आवश्यकश्रुतस्कन्धस्य एकदेशत्वात्, सामायिकादीनां श्रुतविशेपाणां स्कन्धः श्रुतस्कन्धः आवश्यकं च तत् श्रुतस्कन्धश्च आवश्यक श्रुतस्कन्धः । आह— कस्मादिदमावश्यकं षडध्ययनात्मकम् ?, उच्यते, पडर्थाधिकारभावात्, ते चामी सामायिकादीनां यथाक्रममर्थाधिकाराः, “सावज्जजोगविरई १ उक्कित्तण २ गुणवतो अ पडिवत्ती ३ । खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चैव ॥१॥” (अनु-६ वि. ९०२) अस्या विनेयजनानुग्रहायाक्षरगमनिका -प्रथमे सामायिकलक्षणेऽध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिरर्थाधिकारः, 'उक्तित्तण' इति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्म्मक्षयकारणत्वात् लब्धबोधविशुद्धिहेतुत्वात् पुनर्बोधिफलत्वाच्च सर्वसावद्ययोगविरत्युपदेशकत्वेनोपकारिणां तीर्यकृतां गुणोत्कीर्त्तनाधिकारः, 'गुणवतो अ पडिवत्ती'ति गुणाः - मूलगुणोत्तरगुणरूपा | व्रतपिण्डविशुद्ध्यादयस्ते विद्यन्ते यस्यासौ गुणवान् तस्य प्रतिपत्तिः वन्दनकादिका कर्त्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात्पुष्टालम्बने ऽगुणवतोऽपि प्रतिपत्तिः कर्त्तव्येति द्रष्टव्यं, 'खलियस्स निंदण' चि स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोर्विशुद्धाध्यवसायक्तोऽकार्यमिति निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'वणतिमिच्छा' उपोद्घातनिर्युक्तिः Jain Education Inter For Private & Personal Use Only स्कन्धनिक्षेपाः ॥ ८९ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy