________________
Jain Education Intern
| सञ्चरन्तः पतङ्गकीटाः समागत्य मांसाद्यामिषोपभोगलुब्धाः कीलकान्तरेष्वितस्ततः परिभ्रमन्तो लालाः प्रमुञ्चन्ति, ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, एतत्पट्टसूत्रमभिधीयते, अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयं, इत्थमेव चीनविषयवहिरुत्पन्नमंशुकम्, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमित्यभिधीयते, क्षेत्रविशेषाद्धि कीटविशेषः, कीटविशेषाच्च पट्टसूत्रादिव्यपदेशविशेष इति, एवं क्वचिद् विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते, तत्र च प्रभूताः कृमयः समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य तदासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत्कुमिरागं पट्टसूत्रमुच्यते तच्च रक्तवर्णकृमिसमुत्थत्वात् स्वपरिणामत एव रक्तं भवति, अन्ये त्वभिदधति-यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद्योगः प्रक्षिप्यते, तेन यद्रज्यते पट्टसूत्रं तत्कृमिरागमिति, तच्च धौताद्यवस्थास्वपि न मनागपि रागं मुञ्चति, वालजं पञ्चविधं तद्यथाऔर्णिकमौष्ट्रिकं मृगलोमिकं कौतत्रं किट्टिसं च, तत्र ऊर्णामयं और्णिकम्, औष्ट्ररोमनिष्पन्नमौष्ट्रिकं, मृगाकृतयो बृहत्पुच्छा आटविका जीवविशेषा मृगास्तलोमनिष्पन्नं मृगलोमिकं, उदररोमनिष्पन्नं कौतवम्, ऊर्णादीनां यदुद्धरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किट्टिसं, वल्वजं सणप्रभृति, भावश्रुतं द्विधा - आगमतो नोआगमतश्च तत्र आगमतो ज्ञाता उपयुक्तः, नोआगमतो द्विविधं-लौकिकं लोकोत्तरं च तत्र लौकिकं भारतरामायणादि, लोकोत्तरं द्वादशाङ्गं गणिपिटकम् । आवश्यकं नोआगमतो भावश्रुतं नोशब्द एकदेशवचनः, तस्य चेमान्येकार्थिकानि श्रुतं सूत्रं ग्रन्थः सिद्धान्तः प्रवचनमाज्ञा वचनं उपदेशः प्रज्ञापना आगम उक्तं च--" सुयसुत्तगंधसिद्धंतपवयणे आणवयणउवएसे । पण्णवणआगमे या एगठा
For Private & Personal Use Only
www.jainelibrary.org