SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ उगोद्धात नियुक्तिः ॥९ ॥ कएगदारंपि दुक्खसंचारं। चउमूलद्दारं पुण सप्पडिदारं सुहाहिगम॥२॥ सामाइयपुरमेवं (महपुरमवि) अकयदा तहेगदारं वा। अनुयोगदुरहिगमं चउदारं सप्पडिदारं सुहाहिगमं ॥३॥ (वि.९०७-९) तानि चानुयोगद्वाराण्यमुनि-उपक्रमो निक्षेपः अनुगमो नयः, तत्र द्वाराणि शास्त्रमुपक्रम्यते-समीपमानीयते निक्षेपस्यानेनेति उपक्रमः, निक्षेपयोग्यतापादनमिति भावः, उपक्रमान्तर्गतभेदैहि विचारितं निक्षिप्यते नान्यथेति, निक्षेपणं निक्षेपो-नामादिभेदैः शास्त्रस्य न्यसनं, अनुगमनमनुगम्यते वा शास्त्रमनेनेति अनुगमःसूत्रस्यानुकूलः परिच्छेदः, तथा नयनं नीयते वा अनेनेति नया-वस्तुनो वाच्यस्य पर्यायाणां सम्भवतोऽधिगमः । ननूपक्रमा-2 दिद्वाराणां किमित्येवं क्रमः', उच्यते, इह नानुपक्रान्तं सत् निक्षिप्यतेऽसमीपीभूतत्वात् , गुरुपर्वक्रमलक्षणेन हि सम्बन्धेन समीपमानीतं नामादिभेदैनिक्षेहुं शक्यं, नान्यथेति, न च नामादिभेदैरनिक्षिप्तं यथावदर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचारयितुं शक्यते, ततोऽयमेव क्रमः, उक्तं च-"दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्यं । अणुगम्मइनानत्थं नाणुगमोनयमयविहूणो॥॥"(वि.९१५)तत्र उपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्रेतरः षट्पकारः, तद्यथानामोपक्रमः स्थापनोपक्रमो द्रव्योपक्रमाक्षेत्रोपक्रमः कालोपक्रमोभावोपक्रमश्च, तत्र नामस्थापने सुगमे, द्रव्योपक्रमो द्विधाआगमतो नोआगमतश्च, तत्र आगमतः उपक्रमपदार्थज्ञस्तत्र चानुपयुक्तः, नोआगमतस्त्रिधा-ज्ञशरीरद्रव्योपक्रमो भव्यशरीदव्योपक्रमो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्योपक्रमश्च, तत्राद्यभेदद्वयं प्रतीतं, तव्यतिरिक्तद्रव्योपक्रमस्त्रिविधस्तद्यथा-14॥१०॥ सचिचद्रव्योपक्रमोऽचिचद्रव्योपक्रमः मिश्रद्रव्योपक्रमश्च, सचित्तद्रव्योपक्रमस्तु विधा-द्विपदचतुष्पदापदोपाधिमेदात्, पुनरेकैको द्विधा परिकर्मणि वस्तुनाशेच, तत्र परिकर्म नाम द्रव्यस्य गुणविशेषपरिणामकरणं, वस्त्वभावापादनं वस्तुनाशः, तत्र :%ARMA आगमकमा शरीरमव्यश्योपक्रम: मिनद्रव्योपकमनाम द्रव्यस्य गुणविशे Jain Education InteHER For Private & Personal use only W www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy