SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आवश्यक निक्षेपाः SALAM.62 उपोद्धात-18| अन्तं नीतम् , तदेवाविस्मरणतश्चेतसि स्थितत्वात् स्थितं अप्रच्युतमित्यर्थः, परावर्तनं कुर्वतः परेण वा कचित्पृष्टस्य यत् नियुक्तिः शीघ्रमागच्छति तत् जितम् , अक्षरसङ्ख्यया पदसङ्ख्यया वा परिच्छिन्नं मितं, परि समन्तात् जितं परिजितं, परावर्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीति भावः, नामसमं यथा कस्यचित् स्वनाम शिक्षितं स्थितं जितं मितं परिजितं च भवति तथैतदपीति भावः, घोषसमं यथा गुरुणाऽभिहिता घोषास्तथा यत्र शिष्येणापि सम्यगुच्चार्यन्ते तद घोषसममिति भावः, अहीनाक्षरमेकेनाप्यक्षरेणाहीनम् , अनत्यक्षरमेकेनाप्यक्षरेणानधिकं, तथा न व्याविद्धानि-विपर्यस्तरत्नमालागतरत्नानीव विपर्यस्तान्यक्षराणि यत्र तदव्याविद्धाक्षरम् , उपलशकलाद्याकुलभूभागे लाङ्गलमिव यन्न स्खलति तदस्खलितं, अनेकशास्त्रसम्बन्धीनि सूत्राणि एकत्र मीलयित्वा यत्पठ्यते तन्मिलितं यन्न तथा तदमिलितम् , अव्यत्यावेडितमस्थानविरतिरहितं, अत| एव प्रतिपूर्ण हीनाधिकाक्षराभावात् , प्रतिपूर्णघोषं गुरुवत् सम्यगुदात्तादिघोषाणामुच्चारणात् , वाचनोपगतं वाचनया प्रश्न परिवर्तनया धर्मकथया नानुप्रेक्षया उपगतं प्राप्तं, शेष सुगमम् , नोआगमतो द्रव्यावश्यकं त्रिविधम् , तद्यथाज्ञशरीरद्रव्यावश्यकं भव्यशरीरद्रव्यावश्यकं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यकं च, तत्र ज्ञशरीरभव्यशरीरे पूर्ववत्, तद्व्यतिरिक्त त्रिधा, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरं च, तत्र ये इमे राजेश्वरतलवरमाडंबिकप्रभृतयः प्रातरुत्थाय शरीरचिन्तामुखदन्तप्रक्षालनराजकार्यादि कुर्वन्ति तल्लौकिकं द्रव्यावश्यक, ये पुनरिमे चरकप्रमुखाः परिव्राजकाः प्रातरुत्थाय स्कन्धादिदेवतागृहसम्मार्जनोपलेपनघूपनादि कुर्वन्ति तत् कुमावचनिकमावश्यक, यत्पुनरेते श्रमणगुणमुकयोगिनः पहजीवनिकायनिरनुकम्पा हया इव उद्दामानो गजा इव निरङ्कुशा SONAXXNXXSA ॥८७॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy