SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter xxxx | मेणापि अन्यारम्भे चान्यद्व्याख्यायते इति कृतं प्रसङ्गेन, तत्र यस्मादिदं शास्त्राभिधानमावश्यक श्रुतस्कन्ध इति तद्भेदाश्चाध्ययनानि तत आवश्यकं निक्षेप्तव्यम् श्रुतस्कन्धश्च, अपरस्त्वाह- किमिदं शास्त्राभिधानं प्रदीपाभिधानवत् यथार्थ आहोश्चित् पलाशाभिधानवत् अयथार्थ उत डित्थाद्यभिधानवत् अनर्थकं ?, तत्र यदि यथार्थ ततस्तदुपादेयम्, तत्रैव समुदायार्थपरिसमाप्तिभावात्, उच्यते - यथार्थम्, तथाहि पूर्वसूरि प्रदर्शितेयमस्य व्युत्पत्तिः - अवश्यं कर्त्तव्यमावश्यकम् श्रमणादिभिरवश्यं उभयकालं क्रियते इति भावः क्वचिदिति कर्म्मणि वाहुलकात् उप्रत्ययः, पृषोदरादय इति निपातनात् शेषरूपसिद्धिः, अथवा ज्ञानादिगुणानामा-समन्तात् वश्या इन्द्रियकपायादिभावशत्रवो यस्मात् तदावश्यकं 'शेषाद्वे 'ति कच्प्रत्ययः, यदिवा ज्ञानादिगुणकदम्बकं मोक्षो वा आ-समन्तात् वश्यं क्रियतेऽनेनेत्यावश्यकं, अथवा 'आवस्सयं' ति प्राकृतशैल्या आवासकं, गुणशून्यमात्मानं गुणैरावासयतीत्यावासकं, गुणसान्निध्यमात्मनः करोतीति भावः, तच्चावश्यकं चतुर्विधम्, तद्यथा - नामावश्यकं स्थापनावश्यकं द्रव्यावश्यकं भावावश्यकञ्च, तत्र जीवस्याजीवस्य जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयेषां वा आवश्यकमिति नाम क्रियते तन्नामनामवतोरभेदोपचारात् नामावश्यकं, स्थापनावश्यकं नाम काष्ठकर्मादिष्वक्षवराटकादिषु वा सद्भावस्थापनया वा असद्भावस्थापनया वा यदावश्यकमिति स्थाप्यते तत् स्थापनावश्यकं द्रव्यावश्यकं द्विधा, तद्यथा-आगमतो नोआगमतश्च तत्र आगमतो यस्यावश्यकमिति पदं शिक्षितं । स्थितं जितं मितं परिजितं नामसमं घोषसमं अहीनाक्षरमनत्यक्षरमव्याविद्धाक्षरमस्खलितममिलितमव्यत्याग्रेडितं प्रतिपुर्ण प्रतिपूर्णघोषं कण्ठौष्ठ विप्रमुक्कं वाचनोपगतं च स्यात् स पुरुष आगमतो द्रव्यावश्यकं तत्र शिक्षितं नाम यत् पन For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy