________________
*
उपोद्घातनियुक्तिः
नन्दी
********
सम्प्रति मङ्गलसाध्यः प्रकृतोऽनुयोग उपदर्श्यते स च स्वपरप्रकाशकत्वात् गुर्वायत्तत्वाच्च श्रुतज्ञानस्य, उक्तं च-181 सो मइनाणाईणं कयरस्स? सुयस्स, जं न सेसाई । होति पराहीणाई, न य परवोहे समत्थाई ॥१॥ पाएण पराहीणं व्याख्यादीवोव परप्पबोहगंजंच। सुयनाणं तेण परप्पबोहणत्थं तदणुयोगो॥२॥"(वि.८३८-९) आह-नन्वावश्यकस्यानुयोगःप्रकृतऽनियमः एव,पुनःश्रुतज्ञानस्येत्ययुक्तं,नैष दोषः,आवश्यकमिदं श्रुतान्तर्गतमित्येतदर्थप्रदर्शकत्वादेतद्वाक्यस्य,ननु यदि आवश्यकस्यानुयोगस्तर्हितदावश्यकं किमङ्गं अङ्गानि श्रुतस्कन्धः श्रुतस्कन्धाः अध्ययनमध्ययनानि उद्देशक उद्देशकाः?, उच्यते, आवश्यक श्रुतस्कन्धः अध्ययनानि च, न शेषा विकल्पाः, उकंच-"आवस्सयं नो अंगं नो अंगाइं सुयक्खंधो नो सुअक्खंधा नो अज्य.In यणं अज्झयणा नो उद्देसोनो उद्देसगा इति",(अनु.६) ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुतनिरूपणायामनङ्गसंज्ञा प्रतिपा|दितैव, ततः कथं किमङ्गमङ्गानीत्याशङ्कासम्भवः, सत्यमेतत् , केवलं तद्व्याख्यानानियमप्रदर्शनार्थमेतद्वाक्यमित्यदोषःन खल्ववश्यं शास्त्रादौ नन्द्यध्ययनार्थकथनं कर्त्तव्यमिति नियमः, अकृते चाशङ्कासम्भव इति,ननु शास्त्रस्यादाववश्यं मङ्गलार्थ नन्यभिधानं तावत कर्तव्यम्, ततः कथमनियमः, नैष दोषः, ज्ञानपञ्चकाभिधानमात्रस्यैव मगलत्वात , तथाहि-ज्ञानपञ्चकाभिधानमात्रमेवावश्यं शास्त्रस्यादौ मङ्गलार्थ कर्त्तव्यम्, नत्ववयवार्थाभिधानं, अवयवार्थानभिधाने चाशङ्कासम्भवः, किश्व-आवश्यकव्याख्यानारम्भे शास्त्रान्तरव्याख्यानारम्भोऽसमीचीनोऽप्रस्तुतत्वात्, शाखान्तरं च नन्दी, पृथक्श्रुतस्कन्धत्वात् , यद्येवमिहावश्यकश्रुतस्कन्धानुयोगप्रारम्भे किमिति नन्द्यनुयोगः कृतः!, उच्यते-शिष्यानुग्रहार्थ, न पुनरेष नियम इति ख्यापनार्थम्, अथवा अपवादपदप्रदर्शनार्थम्,तथाहि-कदाचिदुत्कलितप्रज्ञविनीतपुरुषापेक्षया तदनुग्रहार्थ उत्क
*
SAGACANCY
Jain Education Inte
l
For Private & Personal Use Only
niw.jainelibrary.org