________________
Jain Education International
भव्येषु च चरमद्वारे चरमेषु, भवस्थकेवलिनां चरमत्वाद्, अचरमेषु च, सिद्धानां भवान्तरप्राप्त्यभावतोऽचरमत्वात्, पूर्वप्रतिपन्नप्रतिपद्यमान कयोजना तु स्वधिया कर्त्तव्या, द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत्कर्षतोऽष्टोत्तरशतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नाश्च जघन्यतं उत्कर्षतश्च कोटीपृथक्त्वप्रमाणा भवस्थकेवलिनः प्राप्यन्ते, सिद्धाः अनन्ताः, क्षेत्र| स्पर्शनाद्वारयोस्तु जघन्यतो लोकस्याप्यसङ्ख्येयभागे केवली लभ्यते, उत्कर्षतस्तु सर्वलोके, कालद्वारे साद्यपर्यवसितं कालं | सर्वोऽपि केवली भवति, अन्तरं तु केवलज्ञानस्य न विद्यते, प्रतिपाताभावात्, भागद्वारं मतिज्ञानवत्, भावद्वारे क्षायिके भावे, अल्पबहुत्वद्वारं मतिज्ञानिवत् ॥ तच्च केवलज्ञानं समासतश्चतुर्विधं प्रज्ञप्तम्, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतथ्य, तत्र द्रव्यतः केवलज्ञानी सर्वद्रव्याणि जानाति पश्यति, क्षेत्रतः सर्व क्षेत्रम्, कालतः सर्वकालम्, भावतः सर्वान् भावान्, उकं च केवलज्ञानं, तदभिधानाच्च नन्दी, तदभिधानान्मङ्गलमिति ॥ तदेवं मङ्गलस्वरूपाभिधानद्वा| रेण ज्ञानपञ्चकमुक्तम्, इह तु प्रकृतेन श्रुतज्ञानेनाधिकारः, तथा चाह नियुक्तिकृत् -
इत्थं पुण अहिगारो सुयनाणेणं जतो सुएणं तु । सेसाणमप्पणोऽविय अणुयोग पदीवदितो ॥ ७९ ॥ अत्र - पुनः प्रकृतेऽधिकारः श्रुतज्ञानेनैव (श्रुतेन) शेषाणां मत्यादिज्ञानानामात्मनोऽपि चानुयोगो व्याख्यानं क्रियत इति वाक्यशेषः, स्वपरप्रकाशकत्वात्, तथा चात्रं प्रदीपदृष्टान्तः, यथा हि प्रदीपः स्वपरप्रकाशकत्वात् स एव गृहेऽधि| क्रियते एवमिहापि श्रुतज्ञानमिति भावः ॥ पीठिका - समाप्ता ॥
For Private & Personal Use Only
www.jainelibrary.org