SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ परम्परसिद्धाः आव.मल. निरन्तरं सियन्तः उत्कर्षतः षट् समयान् यावत्प्राप्यन्ते, तथैकषध्यादयो द्विसप्ततिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः उपोदाते है पञ्च समयान् यावदवाप्यन्ते, ततः परमन्तरं, त्रिसप्तत्यादयश्चतुरशीतिपर्यन्ता निरन्तर सिध्यन्त उत्कर्षतश्चतुरः समयान द अवधौ यावत् , तत ऊर्द्धमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतखीन् समयान् , परतो नियमा दन्तरं, तथा सप्तनवत्यादयो झुत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ यावत् , परतोऽवश्यमन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिद्ध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयानिति । परम्परसिद्धकेवलज्ञानमनेकविधं प्रज्ञप्तम् , तद्यथा-अप्रथमसमयसिद्धकेवलज्ञानं, सिद्धत्वद्वितीयसमयकेवलज्ञानमिति भावः, द्विसमयसिद्धकेवलज्ञानं, सिद्धत्वतृतीयसमयकेवल ज्ञानमित्यर्थः, एवं त्रिसमयसिद्धकेवलज्ञानं चतुःसमयसिद्धकेवलज्ञानं यावत् | सङ्ख्येयसमयसिद्धकेवलज्ञानमसङ्ख्येयसमयसिद्ध केवलज्ञानमनन्तसमयसिद्धकेवलज्ञानम् । तदेवमुक्कं केवलज्ञानस्वरूपमथास्य गत्यादिद्वारविषया सत्पदप्ररूपणता द्रव्यप्रमाणादीनि च विभाव्यन्ते, तत्र सत्पदप्ररूपणायां गतिमङ्गीकृत्य सिद्धिगती मनुष्यातौ च केवलज्ञानम्, इन्द्रियद्वारे नोइन्द्रियाऽतीन्द्रियेषु, कायद्वारे त्रसकायाकाययोः, योगद्वारे सयोगायोगयोः, वेदद्वारेऽवेदकेषु, कषायद्वारेऽकषायेषु, लेश्याद्वारे शुक्ललेश्यालेश्ययोः, सम्यक्त्वद्वारे सम्यग्दृष्टिषु, ज्ञानद्वारे केवलज्ञानिषु, दर्शनद्वारे केवलदर्शनिषु, संयतद्वारे संयतेषुनोसंयतेनोअसंयतेनोसंयतासंयतेषु, उपयोगद्वारे साकारानाकारोपयोगयोः, आहारक द्वारे आहारकानाहारकयो, भाषकद्वारे भाषकाभाषकयोः, परीत्तद्वारे परीत्तेषु नोपरीत्तापरीतेषु च, पर्यावद्वारे पर्याप्तेषु नोपर्याप्तापर्याप्लेषु च, सूक्ष्मद्वारे बादरेषु नोसूक्ष्मबादरेषु च, संज्ञिद्वारे संक्षिषु नोसंज्ञासंज्ञिषु, भव्यद्वारे भव्येषु नोभव्या COM - Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy