SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ****** KAA कृत-इत्थीए लिंग इथिलिंग, इत्थीए उवलक्षणंतिवुत्तं भवति, तं च तिविहं-वेदोसरीरनिबित्ती नेवत्थं च, इह सरीरनिवित्तीए अहिगारो, न वेयनेवत्थेहिंति" तस्मिन् स्त्रीलिङ्गे वर्तमाना ये सिद्धास्तेषां केवलज्ञानं स्त्रीलिङ्गसिद्धकेवलज्ञानं, एवं 8 पुरुषलिङ्गे सिद्धानां केवलज्ञानं पुरुषलिङ्गसिद्धकेवलज्ञानं, एवं नपुंसकलिङ्गसिद्धकेवलज्ञानमपि भाव्यम्, तथास्वलिङ्गे-रजोहर-1 णादौ सिद्धानां केवलज्ञानं स्वलित सिद्धकेवलज्ञानं, अन्यलिङ्गसिद्धकेवलज्ञानं नाम यदन्यस्मिन् लिङ्गे वर्तमानाः सम्यक्त्वं प्रतिपद्य भावनाविशेषात् केक ज्ञानमुत्पाद्य केवलोत्पत्तिसमकालमेव कालं कुर्वन्ति तदन्यलिङ्गसिद्धकेवलज्ञानं , यदि पुन|स्तेऽन्यलिङ्गस्थिताः केवलम्पाद्यात्मनोऽपरिक्षीणमायुः पश्यन्ति ततः साधुलिङ्गमेव परिगृह्णन्ति, गृहलिङ्गे स्थिताः सन्तो ये सिद्धास्तेषां केवलज्ञानं गृहिलिङ्गसिद्धकेवलज्ञानम्, एकसिद्धकेवलज्ञानं नाम यस्मिन् समये स विवक्षितः सिद्धस्तस्मिन् समये यद्यन्यः कोऽपि न सिद्धस्ततस्तस्य केवलज्ञानमेकसिद्धकेवलज्ञानं, एकस्मिन् समयेऽनेकेषां सिद्धानां केवलज्ञानमनेकसिद्धकेवलज्ञानं, एकस्मिंश्च समयेऽनेके सिद्ध्यन्त उत्कर्षतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः, यत उक्तम्-"बत्तीसा अडयाला, सट्टी वायत्तरी य बोद्धवा । चुलसीओ छन्नई, दुरहियमदुत्तरसयं च ॥१॥" अस्या विनेयजनानुग्रहाय व्याख्या-] अष्टौ समयान यावत् निरन्तरमेकादयो द्वात्रिंशत्पर्यन्ताः सिद्ध्यन्तः प्राप्यन्ते, किमुक्तं भवति,-प्रथमे समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्सिद्ध्यन्तः प्राप्यन्ते, द्वितीयेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत् , एवं यावद प्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्, ततः परमवश्यमन्तरम् , तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंश-1 मा.स. १५पर्यन्ता निरन्तरं सिध्यन्तः सप्त सा यावत्याप्यन्ते, परतो नियमादन्तरं, तथा एकोनपञ्चाशदादयः षष्टिपर्यन्ता 22**** ... 3* ... Jain Education Inter For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy