________________
आव. मल.
पोद्घाते
अवधौ
॥ ८४ ॥
Jain Education Internat
एएसिं नियमा पत्तेयं विहारो जम्हा तुम्हा य ते पत्तेयबुद्धा” इति, तथा स्वयंबुद्धानामुपधिर्द्वादशविध एव पात्रादिकः, प्रत्येक बुद्धानां तु द्विधा - जघन्यत उत्कर्षतश्च तत्र जघन्यतो द्विविधः, उत्कर्षतो नवविधः प्रावरणवर्जः, उक्तं च- 'पत्तेयबुद्धाणं जहण्णेणं दुविहो, उक्कोसेण नवावेधो पावरणवज्जो भवति" इति, तथा स्वयंबुद्धानां पूर्वाधीतं श्रुतं भवति वा नवा, यदि भवति ततो लिङ्गं देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि च एकाकिविहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं तस्य न भवति तर्हि नियमात् गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, तथा चोक्तं चूर्णो- "पुवाहीअं सुयं से हवइ वा नवा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवज्जइ, गच्छे य विहरइ इति, अह पुवाहीय सुयसंभवो | अत्थि तो से लिङ्गं देवया पयच्छइ, गुरुसन्निहे वा पडिवज्जइ, जइ य एगविहारविहरणसमत्थो इच्छा च से तो एक्को चेव विहरइ, अन्ना गच्छे विहरइ" इति, प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किश्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद् भवति, तथा चोक्तम्- "पत्तेयबुद्धाण पुवाहीअसुयं नियमा हवइ, जहण्णेणं एकारस अंगा उक्कोसेणं भिन्नदसपुबी, लिङ्गं च से देवया पयच्छइ, लिंगवजिओ वा भवइ, जतो भणियं - "रूप्पं पत्तेयबुहा" इति, तथा बुद्धै: - आचार्यादिभिर्बोधितस्य यत्केवलज्ञानं तत् बुद्धबोषित के वलज्ञानं, स्त्रिया लिङ्गं खीलिङ्ग, स्त्रीत्व स्योपलक्षणमित्यर्थः तच्च त्रिधा, तद्यथा-वेदः शरीरनिर्वृत्तिः नेपथ्यं च तत्रेह शरी रनिर्वृत्त्या प्रयोजनं, न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात्, नेपथ्यस्य चाप्रेमाणत्वात्, आह च नन्द्यध्ययनचूर्णि -
For Private & Personal Use Only
परम्पर
सिद्धः केवलभेद
॥ ८४ ॥
jainelibrary.org