________________
सिद्ध केवलज्ञान १ मतीथसिद्धकेवलज्ञानं २ तीर्थकरसिद्धकेवलज्ञान ३ मतीर्थकरसिद्धकेवलज्ञानं ४ स्वयंबुद्धसिद्धकेवलज्ञानं ५ प्रत्येकबुद्धसिद्धकेवलज्ञानं ६ बुद्धबोधितसिद्धकेवलज्ञानं ७ स्त्रीलिङ्गसिद्धकेवलज्ञानं ८ पुरुषलिङ्गसिद्धकेवलज्ञानं ९ नपुंसकलिङ्गसिद्धकेवलज्ञानं १० स्वलिङ्गसिद्धकेवलज्ञान ११ मन्यलिङ्गसिद्धकेवलज्ञानं १२ गृहिलिङ्गसिद्धकेवलज्ञानं १३ एकसिद्धकेवलज्ञानं १४ अनेकसिद्ध केवलज्ञानं १५ च । तत्र ये तीर्थकराणां तीर्थे वर्तमाने सिद्धास्तेषां यत्केवलज्ञानं तत्तीर्थसिद्धकेवलज्ञानम् , यत्पुनस्तीर्थकराणां तीर्थेऽनुत्पन्ने व्यवच्छिन्ने वा सिद्धास्तेषां यत्केवलज्ञानं तदतीर्थसिद्धकेवलज्ञानं, तीर्थकराः सन्तो ये सिद्धास्तेषां केवलज्ञानं तीर्थकरसिद्धकेवलज्ञानं, शेषाणामतीर्थकरसिद्धकेवलज्ञानं, तथा स्वयंबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं स्वयंबुद्धसिद्ध केवलज्ञानं, प्रत्येकबुद्धाः सन्तो ये सिद्धास्तेषां केवलज्ञानं प्रत्येकबुद्धसिद्धकेवलज्ञानम्, अथ स्वयंबुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः१, उच्यते, बोध्युपधिश्रुतलिङ्गकृतः, तथाहि-स्वयंबुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयंबुद्धा इति व्युत्पत्तेः, आह च चूर्णिकृत्-"सयमप्पणिज्जं जाइस्सरणादिकारणं पडुच्च बुद्धा सयंवुद्धा" इति, ते च द्विधा-तीर्थकरास्तीर्थकरव्यतिरिकाश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत्-"ते सयंबुद्धा दुविहा-तित्थयरा तित्थयरवइरित्ता य, इह वइरित्तेहिं अहिगारों' इति, प्रत्येकबुद्धास्तु बाह्यं प्रत्ययमपेक्ष्य, प्रत्येकं बाह्य-वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः इति व्युत्पत्तेः, तथा च भूयते बाह्यप्रत्ययसापेक्षा करकण्ड्वादीनां बोधिः, बहिःप्रत्ययमपेक्ष्य ते च बुद्धाः सन्तो नियमतःप्रत्येकमेव |विहरन्ति, न गच्छवासिन इव संहताः, उकं च चूर्णी-"पत्तेयं बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः,
EASESENSANSACSRECSALA
★★
Jain Education International
For Private & Personal use only
www.jainelibrary.org