________________
आव.मल. उपोद्घाते
अवधौ
KONOSAR
वाग्योगश्रुतं द्रव्यश्रुतमिति ॥ तत्केवलज्ञानं स्वामिनमधिकृत्य द्विविध प्रज्ञप्तम् , तद्यथा-भवस्थकेवलज्ञानं सिद्धकेवलज्ञानं, जिनवाचः च, तत्र यद् मनुष्यभवे अवस्थितस्य चतुर्वघातिकर्मस्वक्षीणेषु केवलज्ञानं तद् भवस्थकेवलज्ञानं, यत् पुनरशेषेषु कौशेप्वपगतेषु सिद्धत्वावस्थायां तत् सिद्धकेवलज्ञानं, तत्र यद्भवस्थकेवलज्ञानं तद् द्विविधम् , तद्यथा-सयोगिभवस्थकेवलज्ञान- गा. ७८ मयोगिभवस्थकेवलज्ञानं च, तत्र केवलज्ञानोत्पत्तेरारभ्य यावदद्यापि शैलेश्यवस्थां न प्रतिपद्यते तावत् सयोगिभवस्थकेवलज्ञानं, शैलेश्यवस्थायामयोगिभवस्थकेवलज्ञानं, तत्र यत्सयोगिभवस्थकेवलज्ञानं तद् द्विविधं प्रज्ञप्तम् , तद्यथा-प्रथमसमयसयोगिभवस्थ केवलज्ञानमप्रथमसमयसयोगिभवस्थकेवलज्ञानंच, तत्र यस्मिन् समये केवलज्ञानमुत्पन्नं तस्मिन् समये तत्प्रथमसमयसयोगिभवस्थकेवलज्ञानं, शेषेषु तु समयेषु शैलेशीप्रतिपत्तेरा वर्तमानमप्रथमसमयसयोगिभवस्थकेवलज्ञानम् , अथवाsन्यथा द्विविधं प्रज्ञप्तम् , तद्यथा-चरमसमयसयोगिभवस्थकेवलज्ञानमचरमसमयसयोगिभवस्थकेवलज्ञानम्, तत्र यत्सयोगित्वावस्थायाश्चरमसमये वर्तमानं तत् चरमसमयसयोगिभवस्थकेवलज्ञानं, ततःप्राक् शेषेषु समयेषु वर्तमानमचरमसमयसयोगिभवस्थकेवलज्ञानं, तथा अयोगिभवस्थकेवल ज्ञानमपि द्विविधं प्रज्ञप्तम् , तद्यथा-प्रथमसमयायोगिभवस्थकेवलज्ञानमप्रथमसमयायोगिभवस्थकेवलज्ञानं च, अथवा चरमसमयायोगिभवस्थकेवलज्ञानमचरमसमयायोगिभवस्थकेवलज्ञानं च, प्रथमाप्रथमचरमाचरमसमयभावना प्रागुक्तानुसारेण स्वयं भावनीया। सिद्धकेवलज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-अनन्तरसिद्धकेवल- ८३॥ ज्ञानं परम्परसिद्ध केवलज्ञानं च,सत्र यस्मिन् समये सिद्धोजायते तस्मिन् समये वर्तमानमनन्तरसिद्धकेवलज्ञान, सिद्धत्वद्वितीयादिसमयेषु वर्तमानं परम्परसिद्ध केवलज्ञानं, तत्रानन्तरसिद्धकेवलज्ञानमुपाधिभेदात् पञ्चदशविधं प्रज्ञप्तम् , तद्यथा-तीर्थ
ASSASAS
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org