________________
Jain Education Inter
| सवितेव प्रकाशं देशनामातनोति, तत्रान्युत्पन्नविनेयानां केषांचिदेवमाशङ्का भवेत्-भगवतोऽपि तीर्थकृतस्तावत् द्रव्यश्रुतं ध्वनिरूपं विद्यते, द्रव्यश्रुतं च भावश्रुतपूर्वकं ततो भगवानपि श्रुतज्ञानीति, ततस्तदाशङ्कापनोदार्थमाह
केवलनाणेणऽत्थे नाउं जे तत्थ पन्नवणजोग्गे । ते भासह तित्थयरो, वड्जोगसुयं हवइ सेसं ॥ ७८ ॥ केवलज्ञानेन 'सर्वं वाक्यं सावधारण' मिति न्यायात् केवलज्ञानेनैव, न श्रुतज्ञानेन, तस्य क्षायोपशमिकभावातिक्रमात्, सर्वक्षये देशक्षयाभावात् अर्थान्-धर्मास्तिकायादीनभिलाप्यानभिलाप्यान् ज्ञात्वा विनिश्चित्य ये तत्र तेषामभिलाप्यानां मध्ये प्रज्ञापनयोग्या अभिलाप्या इत्यर्थः तान् भाषते, नेतरान् तानपि प्रज्ञापनयोग्यान् भाषते, न सर्वान्, तेषामनन्तत्वेन सर्वेषां भाषितुमशक्यत्वात् वाचः क्रमवर्त्तित्वाच्च, आयुषश्च परिमितत्वात्, किन्तु कतिपयानेवानन्तभागमात्रान्, आह च भाष्यकृत् - " पण्णवणिज्जा भावा अनंतभागो उ अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुयनिबद्धो ॥१॥ (वि. १४१) तत्रापि तान् कतिपयान् भाषते ग्राहकापेक्षया योग्यान्, तत्रापि यावन्मात्रे भणिते शेषं स्वयमप्यभ्यूहितुमीष्टे तावन्मात्रं, न त्वभ्यूह्यमपि, उक्तं च- " तत्थवि जोग्गे भासइ नाजोग्गे गाहगाणुवित्तीए । भणिएवि जंमि सेसं सयमूहइ भणइ तम्मत्तं ॥१॥” (वि.८३१) तत्र केवलज्ञानोपलब्धार्थाभिधायकः शब्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषा पर्यायादिनामकर्मोदयनिबन्धनत्वात् श्रुतस्य च क्षायोपशमिकत्वात् स च वाग्योगो भवति श्रुतं शेषम् - अप्रधानं, द्रव्यश्रुतमित्यर्थः, श्रोतॄणां भावश्रुतकारणतया द्रव्यश्रुतं व्यवह्रियते इति तात्पर्यार्थः, अन्ये त्वेवं पठन्ति - 'वाइयोग सुयं | हवइ तेसिं' तत्रायमर्थः - तेषां श्रोतॄणां श्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, श्रुतमिति व्यवहियते इत्यर्थः, अथवा
For Private & Personal Use Only
www.jainelibrary.org