SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ केवलज्ञानं गा.७६ आव.मल.18| इति, पठितश्चान्यत्राप्युपन्यासार्थोऽथशब्दः, यत उक्तम् अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि"ति, उपोद्धाते सर्वाणि च तानि द्रव्याणि च-जीवादीनि तेषां परिणामाः-प्रयोगविनसोभयजन्या उत्पादादयः पयायाः सर्वद्रव्यपरिणा- अवधीमास्तेषां भावा-सत्तास्वरूपं स्वलक्षणं वा स्वं स्वमसाधारणरूपं तस्य विशेषेण ज्ञपनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः परिच्छेद इत्यर्थः तस्याः कारणं-हेतुः सर्वद्रव्यपरिणामविज्ञप्तिकारणं, केवलज्ञानमिति सम्बध्यते, उक्त च-"सबदवाण पओग-वीससामी॥८२॥ सजा जहाजोग्गं । परिणामा पजाया जम्मविणासादओ सबे (ते उ)॥१॥ तेसिं भावो सत्ता, सलक्खणं वा विसेसतो तस्स । नाणं विण्णत्तीए कारणं केवलण्णाणं ॥२॥" (वि.८२५-६) तच्च स्वज्ञेयानन्तत्वादनन्तम् , तथा शश्वद् भवं शाश्व-17 तम्, सदोपयोगवदिति भावार्थः, तथा प्रतिपतनशीलं प्रतिपाति न प्रतिपाति अप्रतिपाति, सदावस्थायीति भावः, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन', तदयुक्तम् , सम्यक्शब्दार्थापरिज्ञानात् , शाश्वतं हि नाम अनवरतं भवदुच्यते, शश्वद्भवंशाश्वतमिति व्युत्पत्तेः,तच कियत्कालमपि भवति,यावद्भवति तावन्निरन्तरं भवनात्,ततः सकलकालभावप्रतिपत्त्यर्थमप्रतिपातिविशेषणोपादानं, एष तात्पर्यार्थः-अनवरतं सकलकालं भवतीति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावप्रतीतिज्ञापनार्थ विशेषणद्वयोपादानम्, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति तु शाश्वतमशाश्वतं च भवति, यथा अप्रतिपात्येवावधिज्ञानमिति, तथा एकविधम्-एकप्रकारं तदावरणक्षयस्यैकरूपत्वात् , उक्तंच-"पज्जायओ अणंतं,सासयमिटू सतोवओगाओ। अबयओऽपडिवाई एगविहं सबसुद्धीए ॥२॥” (वि.८२८) केवलं च तत् ज्ञानं च केवलज्ञानम् ॥ इह तीर्थकृत्समुपजातकेवलालोकस्तीर्थकरनामकर्मोदयतः तथास्वाभाव्यादुपकार्यकृतोपकारानपेक्षं सकलसत्त्वानुग्रहाय CAKACACANCE 15 ८२॥ Jain Education Intel ॐ For Private & Personal use only Xiaw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy